६. शब्दव्युत्पत्तिः ।
धातुप्रकृतिकैः कृद्भिर्नामप्रकृतिकैस्तद्धितैश्च शब्दा व्युत्पादिताः ।
तत्र नामानि सर्वाणि धातुजानीति नैरुक्तसमयं कटाक्षयन्नाचार्यो नामनि
प्पत्तिप्रक्रियाया दिक्प्रदर्शनमुणादिसूत्रैः करोति । तेषाञ्च धातुपाठसमा-*
नयोगक्षेमां दशां पश्यन् 'भूवादयो धातवः' इति संज्ञाप्रकरण इव 'उणा-
दयो बहुलं' इति कृन्मध्ये सूत्रयति । तद्धितांस्तु परिपूर्णानेवाभिमन्यमा-
नोऽर्थविषय एव शेषाधिकारेण बहुलकं करोति । उभयेष्वप्येकमेव
प्रत्ययं प्रक्रियाप्रयोजनकान् नानाप्रकाराननुबन्धानासज्य बहूकरोति ।
यथा – 'अ' इत्येकः प्रत्ययः
-VENT अ:
अप
टः
अण्
घञ
टच
शः
इत्येवं बहुधा कल्पितः । अकाररूप एकस्मिन् प्रत्यये क्रियमाणे प्रकृति-
भेदेनार्थभेदेन च तत्तदनुबन्धसूचिताः प्रक्रियाः कुर्यादित्येवाचार्यस्य विव-7
क्षितमिति स्पष्टम् । एकस्य नानात्वप्रतीतिस्तत्तद्भूमिकापरिग्रहेण
तत्तत्कथापात्रभूयं प्राप्तस्य नटस्येवेत्येव ।
अङ्ग्
कः खच
अच्
खश
डः
अञ्
घः
णः
अथ क्वचित् क्विप्, क्विन्, च्वि, विच् इत्यदृश्यान् प्रत्ययानुल्लिख-
त्याचार्यः । केचिद्धातवो विनैव प्रत्यययोगं कारकार्थबोधनक्षमा इत्येव
क्विब्विधेस्तात्पर्यम् । एतदर्थं 'व्' इत्यपृक्तप्रत्ययकल्पनं तु 'प्रधानप्रत्ययार्थ-
वचन' सिद्धान्तस्य प्रचारणायैव । अनुबन्धैः प्रक्रियोपदेशनीतिरत्राप्यस्ति ।
क्रियाप्रकृतिभूता घातव इव प्रत्यया अपि प्रायेणैकाच एव । कल्प-
ब्देश्यदेशीयरः, जातीयर, मात्रच् इत्यादीनां स्वतन्त्रशब्दत्वाङ्गीका-
रेऽप्यर्थयोजना सुगमा । कृत्येषु तव्यत्तव्यानीयर्-तवैप्रभृतीनामन्यथा-
सिद्धिः प्रागेव प्रतिपादिता । तरप्तमपोः स्वतन्त्रत्वे तारतम्यशब्दः साक्षी ।
पञ्चषास्त्वनेकाच एव ग्राह्याः स्युः ।
धातुप्रकृतिकाः कृतः, नामप्रकृतिकास्तद्धिता इति हि व्यवस्था ।
तत्रोभयसम्मिश्राश्च सन्ति केचित् प्रत्ययाः । यथा- 'कर्मव्यतिहारे णच
स्त्रियां' इति कृत्प्रत्ययो णच् ‘णचस्त्रियामञ्' इत्यञ्-तद्धितान्त एव प्रयो-
ज्यः । तथैव 'अभिविधौ भाव इनुण' कृत्प्रत्ययः 'अणि नुण' इत्यण्
तद्धितसहकृत एव प्रवर्तते । एवं ‘वितः क्रिः’ ‘क्रेर्मन्नित्यं' इति मम्प्र-
6
।
त्ययं नित्यमपेक्षते । 'पूर्वादिनिः' (१-२--८६), 'सपूर्वाच्च' (५-२-८७)
पृष्ठम्:Laghu paniniyam vol2.djvu/१२४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति