पृष्ठम्:Laghu paniniyam vol2.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२
आख्यातानि ।
-
लिपे प्रयुज्येते । द्वित्वं परं नास्तीत्येव । 'अपश्यं गोपामनिपद्यमानं'
(म. १-सू १६४ - ऋक् ३१) इत्यादौ पश्येयमित्याशंसायां भूतवद्भावः ।
'छन्दसि लङलुङलिटः 'इति, सूत्रं, तस्य काशिकायां 'धातुसम्बन्धे' इत्य-
नुवृत्य, व्याख्यानञ्चैवं संगच्छते । यथा विशेष्यक्रियानुरोधेन लोके प्रत्य-
यानां कालनियमस्तथा वेदे प्रकरणानुरोधेन भूतलकारणां भूतवाचित्वमिति ।
लङ्लुङ्‌लिट: फलानुबन्धेन वर्तमानव्यपदेशक्षममपि भूतं बोधयेयुरिति-
फलितम् ।
-
प्रकारबोधकानां चतुर्णामपि लकाराणां चोदनैवार्थः । तत्रैवं तार-
तम्यं – आज्ञाप्रैषातिसर्गादिपदवाच्या तीव्रतमा चोदना लोटः; आशंसा-
प्रार्थनाधीष्टादिपदवाच्या मन्दतमा लिङः; अनयोरवध्योर्मध्ये सम्भावनाशं -
कोपसंवादादिपदवाच्या लेट:; विध्युपदेशादिपदवाच्या लेङः इति ।
तत्रान्तरालिकौ लेङ्लेटौ स्वं स्वमर्थमवधिभूतयोलिंङ्लोटोर्यथायोगं संविभ-
ज्य गच्छता कालेन लुप्तौ । आज्ञातिसर्गादिरूपा तीव्रचोदना स्वात्मनि न
सम्भवतीति समानाधिकरणेनास्मदाभिसम्बद्धुं प्रकृत्यानर्हस्य लोट उत्तम-
पुरुषः सर्वतो लुप्यमानरूपावलेर्लेटो रूपः पूरितो बभूव । लेङश्च जीर्णा-
वशेषाः क्वचित् क्वचिन्माङ्योगिषु निषेधवाक्येष्वालक्ष्यन्ते । अतिसर्गबो-
धने लोडधिकं शोभत इति तस्य अतिसर्जकप्रकारसंज्ञा कृता; आम्नाय-
कृतेषु विधिषु लिङ भूयसा दृश्यत इति स विधायकप्रकारः कृतः । उप-
संवादे लेट औचित्यमवलंब्य स उपसंवादक इति व्यपदिष्टः; प्राचीनैरनु-
पदिष्टस्य लेङ: पुनस्तादृशोऽर्थविशेषो न विज्ञात इति सामान्येन नियोज-
कसंज्ञा कृता ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१२३&oldid=347365" इत्यस्माद् प्रतिप्राप्तम्