पृष्ठम्:Laghu paniniyam vol2.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।
तस्मा पन्यतमाय जुष्ठमना मित्राय हविराजुहोत ॥ ५ ॥
नमस्कारेण उपसद्यः अभिगम्यः । यातयज्जनः प्रेर्यमाणजन:
जनान् प्रेरयन्नित्यर्थः । महान् आदित्य : सुशेवः सुखसेव्यो भवति । गृणते स्तोत्रं
कुर्वते जनाय । पन्यतमाय स्तुत्यतमाय तस्मै मित्राय जुष्टं प्रीतिविषयं एतद्धविः
आजुहोत ।
नमसा
मित्रस्य चर्षणीटतोऽवो देवस्य सानास ।
युम्नंचित्रश्रवस्तमम् ॥ ६ ॥
चर्षणीधृतो मनुष्याणां धर्तुर्देवस्य मित्रस्य संबन्धि अवः अन्नं सानसि
सर्वैः सम्भजनीयम्। सानसिपर्णसीत्यादिना उणादिसूत्रेण निपातितोऽयं शब्दः ।
तस्य मित्रस्यैव द्युम्नं धनं चित्रश्रवस्तमं चित्रकीर्तियुक्तम् ।
919
अभि यो महिना दिनं मित्रो बभूव सप्रथा: ।
अभि श्रवेभिः पृथिवीम् ॥ ७ ॥
१११
सप्रथा: कीर्तिमान् यो मित्रः महिना माहात्म्येन दिवं अभिबभूव । स
श्रवोभिः पृथिवीमभि अभिभवति । सूर्यकिरणाः प्रथमं दिवि व्याप्य पश्चात् भूमावपि
व्याप्नुवन्तीत्यर्थः ।
5 मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
स देवान् विश्वान् बिभर्ति ॥ ८ ॥
-1015
पञ्चजनाः मनुष्याः ] अभिष्टि अभिगमनक्षमं– शत्रुप्रधर्षकमित्यर्थः ।
शवो बलं यस्य तस्मै मित्राय येमिरे हवींषि ददुः । अद्यपर्यन्तं सर्वे जनाः हविरर्पितवन्त
आसन् । स मित्रो विश्वान् देवान् बिभर्ति |
मित्रो देवेष्वायुषु जनाय पृक्तबर्हिषे ।
इष इष्टव्रता अकः ॥ ९ ॥
आयुषु मनुष्येषु देवेषु च मध्ये वृक्तबर्हिषे — छिन्नबर्हिषे यज्ञार्थं इध्मच्छेदनं
कृतवते । जनाय स्वभक्तायेत्यर्थः । मित्रः इष्टव्रताः इषः ईप्सितान् कामान् अकः कृत-
वान् दत्तवान् । कृञो लुङि च्लेर्लुक् । मित्रोऽयं देवः स्वभक्तेभ्यो बहुभ्य इष्टान्
कामान् अर्पितत्रानिति श्रूयते । अतः सेव्य इति भावः ।
एवमन्येष्वपि सूक्तेषु भूतकालप्रयोगो व्याख्यातव्यः । 'को ददर्श
प्रथमं जायमानं’, ‘को विद्वांसमुपगान् प्रष्टुमेतत्,' ‘क उतच्चिकेते' इत्यादिषु प्रश्नेषु
वर्तमानार्थप्रतीतिः सुलभतरा । न केोऽपि प्रथमं जायमानं दृष्टवान्,
न कोऽपि एतद्विषयकं प्रश्नमद्यापि विद्वत्सविधे कृतवान् ज्ञायते, कस्तद्विदि-
तवानस्ति इति ह्येषामर्थः । लोकेऽपि 'वेद' 'आह' इति द्वौ धातू एवं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१२२&oldid=347364" इत्यस्माद् प्रतिप्राप्तम्