पृष्ठम्:Laghu paniniyam vol2.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
मयमाविर्भवति; एतान्येतान्यपदानानि करोति; अयमित्थमाराध्यः; पूर्वे
ऋषय एनमित्थमुपचेरुः, तद्वद्यूयमपि कुरुत; अयमस्मभ्यं श्रियं ददातु;
एनमहं प्रसादयितुमिच्छामि; अयं नः ऋतावागच्छतु; अयं भक्तेभ्य एतदे-
तत् प्रयच्छति इत्यादिः सूक्तानां गतिः । यथा तृतीये मण्डले एकोनष-
ष्टितमं सूक्तम्-
११०
-
मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवज्जुहोत ॥ १ ॥
मित्रः सूर्य: ब्रुवाण: कालं बोधयन् जनान् यातयति-स्वस्वकृत्ये प्रेरयति ।
मित्रः पृथिवीं द्यां च दाधार-धारितवान् । अद्यापि धारयति च । लिट्प्रयोगस्तु मित्र-
स्यापदानानां परिगणनाभिप्रायेण | मित्र: कृष्टी: – जनान् अनिमिषा निमेषं विना
अभिचष्टे अभितः पश्यति–पर्यवेक्षत इत्यर्थः । मित्राय यूयं घृतसहितं हव्यं जूहुत ।
थप्रत्ययस्य तबादेशः ।

प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन ।
न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥ २ ॥
हे आदित्य । यस्ते व्रतेन शिक्षति त्वामुद्दिश्य अनुष्ठानानि शीलयति । स
मर्तः मर्त्यः प्रयस्वान्–अन्नवान् अस्तु प्रभवतु । त्वोतः त्वया रक्षितः । अत्र युष्मदेक-
वचनप्रकृतिःत्व इति, न तु त्वदिति । सर्वनामप्रकरणं दृश्यताम्। त्वा इति तृती-
यैकवचनं वा। त्वद्रक्षितः पुरुषो नान्येन हन्यते, न च जीयते । एनं अंहः समीपे
दूरेऽपि नाश्नोति ।
अनमीवास इळ्या मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः ।
आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥ ३ ॥
अनमीवासो रोगवर्जिताः । इळया अन्नेन मदन्तो मायन्तः पृथिव्या वरि-
मन् विस्तीर्णे प्रदेशे मितज्ञवो मितजानुका: । आ आगच्छन्तः । उपसर्गश्रवणात् योग्य-
क्रियाध्याहारः । आदित्यस्य व्रतमुपक्षियन्तः कुर्वाणाः । वयं मित्रस्य सुमतौ स्याम
मित्रेणानुग्राह्या भवेम । वरिमन्निति उरुशब्दादिमनिचि प्रियस्थिरेत्यादिना वरादेशः ।
डेर्लुक् ।
अयं मित्रो नमस्यः सुशेवो राजा सुक्षन्त्रो अजनिष्ट वेधाः ॥ ४ ॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
नमस्य: नमस्करणीयः । सुशेवः सुखेन सेव्यः । राजा जगत्पतिः । सुक्षत्रो
बलवान् | वेधा जगत्स्रटा । अयं मित्रः अजनिष्ट उदितवान् । एतावति स्तोत्रे
पठिते उदितवन्तं सूर्य पश्यत ऋषेर्वचनम् | यज्ञियस्य यज्ञार्हस्य तस्य मित्रस्य सुमतौ
भद्रे सौमनसेऽपि वयं स्याम |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१२१&oldid=347363" इत्यस्माद् प्रतिप्राप्तम्