पृष्ठम्:Laghu paniniyam vol2.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
१०९
प्रयो-
रूपविभाग एवं प्रदर्शितः । अथ कालप्रकारयोर्विभागः
चुर्जननात् पूर्वी भूतकालः परोक्षः, तत्र लिट् । प्रयोगदिने यावान् कालो-
ऽतीतः सोऽद्यतनः, तत्र लुङ् । अनयोरवध्योर्मध्यगतोऽनद्यतनः, तत्र
लङ् । इति भूतकालस्य त्रयो भेदाः । अस्य नियमस्य शास्त्रसम्मता
उपेक्षाप्रयुक्ताश्च व्यत्ययाः सुलभाः । अद्यतनानद्यतनभेदो लोके भावि-
नोऽप्यस्ति । तत्रानद्यतनभाविन्येव लुट् । ऌट् तूभयत्रापीष्यते । शीलं,
वस्तुस्थितिः, सार्वकालिकोऽर्थः इत्यादीनपि लट् बोधयति । यथा—
दाक्षिणात्या: शालीन् भुञ्जते, गोधूममौत्तराहाः - शीलम् ।
केरलेषु केरतरवो विजृम्भन्ते – वस्तुस्थितिः
जलं तैलात् गुरुतरं भवति- सार्वकालिकोऽर्थः ।
चमत्कारातिशयायातीतमप्यर्थं पुरावृत्तवर्णनेषु कवयः प्रयोगकाले साक्षात्
कुर्वाणा इव लटा कथयन्ति । यथा--
प्रहसन्ति च तां केचिदभ्यसूयन्ति चापरे ।
अकुर्वत दयां कचित्..
(महाभारतम्)
छन्दसि पुनर्यथाप्रदर्शितमेतद्विपर्यासेन वर्तमाने भूतलकाराः प्रयुक्ता दृश्य-
न्ते । अत्रोपपत्तिश्चिन्त्यते वृत्तस्यापि साक्षात् क्रियमाणत्वप्रतीतिजननाय
लोके यथा वर्तमान प्रयोगस्तथा वेदे वर्तमानस्यापि 'पूर्व कदाचिदेत-
देवं वृत्तं, पूर्वमेतदेवं कश्चिदकरोत्' इति दृष्टान्तप्रदर्शनेन प्रत्ययदाढर्याय
भूतप्रयोग: स्यात् । कचित् आशंसायां भूतवद्भावेन भूतलकारप्रयोगो
भवेत् । अन्यत्र फलानुबन्धेन वर्तमानप्रयोगे न्याय्येऽपि वस्तुतः क्रियाया
निर्वृत्तत्वमाश्रित्य भूतलकारेण निर्देशः कृत इति स्यात् । अयमन्त्योऽर्थो
लोके निष्ठाया विषयः । क्तक्तवतू हि परिसमापितां फलानुबन्धिन च
क्रियां बोधयतः । अत एव तयोर्निष्ठासंज्ञाया अर्थयोजना | व्याकर
णमध्यगीषि इत्युक्तावध्ययनफलानुबन्धोऽपि बोध्यते ।
अथात्र काश्चिदृच उदाहरिष्यामः- इह किल भूयिष्ठं देवता स्तुतिपरो
मन्त्रकाण्डः । स्तुतयश्चोच्चावचैर्भैदैः प्रवर्तन्ते । परोक्षकृताः प्रत्यक्षकृता
आध्यात्मिक्यश्चेति तासां प्राधान्येन त्रीन् भेदानाह यास्कः
भेदस्य नानाविधाः प्रभेदाः । आकृत्या प्रकृत्या चेत्थंभूतोऽयं देवः; इत्थ-
कस्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१२०&oldid=347362" इत्यस्माद् प्रतिप्राप्तम्