पृष्ठम्:Laghu paniniyam vol2.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
१०५
प्यन्तीति प्राचीनैर्विहितान्वर्थसंज्ञानां प्रत्येकं बहवो भेदाः— १. केवलभ-
वन्ती,
२. अतिभवन्ती,
३. नियोजकमवन्ती,
वन्ती,
५. उपसंवादकभवन्ती,
४. विधायकभ
६. अतिसर्जकभवन्तीति भवन्त्यः
षट् । परोक्षाया अप्येवमेव षट् । अद्यतन्या अतिवर्तिभेदस्याभावात्
पञ्च । भविष्यन्त्याः प्रकाराणामभावात् द्वौ । अनया कल्पनया वेदब्राह्म
णयोर्दृष्टानि विलक्षणान्याख्यातरूपाणि सामरस्येनोपपद्यन्त इत्युपक्षिप्तोऽय-
मस्माभिः सिद्धान्तः । अत्र प्रकृतिभूतत्वेन प्रतिपादितानां लडादीनामेव
प्राचीनैर्भवन्त्यादयः संज्ञाः कृता इत्ययमर्थः, श्रीकादिष्वीदृश एवाख्यात-
विभागः प्रायो दृश्यत इनि स्वसृभाषासम्प्रदायसंवादश्च कल्पनामिमां
हस्तावलम्बप्रदानेन प्रबलीकुर्वाते । यदि पुनराख्यातरूपाणीव तद्वाच्याः
कालभेदा न सम्यगुपपद्यन्ते तत्र वयं नापराध्यामः । क्रियाफलात्मगामि-
त्वपरगामित्वलक्षण आत्मनेपदपरस्मैपदविभागोपाधिरिव परोक्षप्रत्यक्षाद्य-
तनानद्यतनत्वादिनिबन्धनः कालोपाधिरपि कालातिपातान्मलिनीभूय नाम-
मात्रव्यवस्थितोऽद्यसंवृत्त इति समाधेयम् ।
आख्यातानां कालः, प्रकार, प्रयोगः, पुरुषः, वचनं इति पञ्च
रूपभेदस्योपाधयः । तत्र विविध एकविधो वा विकरणप्रत्ययः प्रकृति-
द्वित्वं, अडागम इत्येतेषु कार्येषु यथायोगं यथापेक्षितञ्च एकं, द्वे, त्री-
ण्यपि वा कालं बोधयन्ति । यासुट्सीयुटौ अडाटौ इत्यागमाः 'एरुः' इत्या-
दय आदेशाः, पुरुषप्रत्ययशिथिलीकरणं वा प्रकारमुपाधिं विवेचयति ।
उपग्रहो विकरणविपर्यासश्च कर्तृकर्मभावभेदं प्रयोगस्य सूचयतः । तिप्त-
सूझिप्रभृतयः प्रत्ययाः पुरुषवचनभेदं प्रत्याययन्ति । केवलानामाख्यातानां
साधारणा उपाधय एते । यदि पुनः सनादिवृत्तिभिर्यथायोगमायोजितैः
प्रकृतावप्युपाधय आम्रेड्यन्ते तदा बहुभूमः प्रासाद इवाख्यातस्य रूपमु-
पर्युपरि विजृंभेत । यड्सन्ण्यन्तान् सनि लिङि बोभूयिषयिषेत्, यणिच्-
सन्नन्ताण्णिचि लाङ अबोभूययिषिष्यत् इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/११६&oldid=347358" इत्यस्माद् प्रतिप्राप्तम्