पृष्ठम्:Laghu paniniyam vol2.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६
आख्यातानि ।
आख्यातस्य चतुर्षु वर्गेषूक्तेषु भवन्तीवर्ग एव प्रधानं बहुलप्रयो-
गश्च । तस्य सर्वे भेदा लोके प्रयुज्यन्ते । यथा-
१. केवलभवन्ती लट्
२. अतिभवन्ती...
.लङ्
३. अतिसर्जकभवन्ती लोट्
४. विधायकभवन्ती......….लिङ्
५. नियोजकभवन्ती........मायोगे लुङ्,
६. उपसंवादकभवन्ती..लोडुत्तमपुरुषः ।
........
स्मोत्तरे लङ् च
परोक्षावर्गे केवलपरोक्षा (लिट्) एकैच लोके । अद्यतनीवर्गे केवला-
द्यतनी (लुङ्,) आशीर्लिङाख्या विधायकाद्यतनी चेति द्वौ भेदौ । भविष्य-
न्तविर्गे केवलभविष्यन्ती (ऌट्), अतिभविष्यन्ती (ऌङ्) चेति द्वौ । वेदेऽपि
भविष्यन्तीवर्गे एतौ द्वावेव दृष्टौ । अनुप्रयोगिनी (लुट्) लेोके एव । आशी-
र्लिंर्डो विधायकाद्यतनीतो निष्पन्नत्वं तत्प्रक्रियापरिशोधनेन स्फुटीभवि-
प्यति । आशीर्लिङ् तावद्वेदे विरलः, लोके तु विरलतरः । अतोऽस्य
रूपाणि बहनि लक्षणैकनिष्पाद्यानि | लुङ: पञ्चसु विकरणेषु सिज्लुग्भ्यां
निष्पन्नेभ्योऽङ्गेभ्य उत्पन्नानि लिरूपाण्येव भाषायामिदानीमाशीर्लिंङा-
त्मना परिणतानि। तत्रापि ससिच्कमंगमात्मनेपदेष्वेव । लुप्तसिच्कं परस्मै
पदेष्वेवेति च नियमः। ससकारो यासुट्, तथोः सुट् च यथोपदिष्टं पाणि-
निना कश्चिदाशीर्लिङो विशेषः । सीयुटि श्रूयमाणस्तु सकारो वस्तुतः
सिजेव । केवलधातोराशीिर्लिंडं व्युत्पादयन्नाचार्यः सिच्प्रत्ययमप्यागम-
शरीरेऽन्तर्भावितवान् । प्रक्रियाविशेषोपदेशेषु च 'लिसिचावात्मनेपदेषु'
ईत्युभौ पृथग्गृहीतवान् । सिचो लुका प्रकृतिमात्रावशेषाद्धातोर्यासुडुप-
स्कृतैः पुरुषप्रत्ययैः भूयात् भूयास्तां भूयासुः इति रूपाणि । ‘एधिष्’ इति-
ससिच्कादभङ्गात् 'ईष्ट' इत्यादिभिरागम संस्कृतैः पुरुषप्रत्ययैः एधिषीष्ट एधिषी
यास्तां एधिषीरन् इत्यात्मनेपदरूपाणि । अस्ति च विधायकाद्यतन्या आ
शीरर्थबोधने नैसर्गिकी स्वरूपयोग्यता । आशिषः प्रयोक्ता ह्याशासितमर्थ
मनसा सन्निधाप्य ग्रहीतरि पर्वमेव तत् सङ्कल्पशक्तचा समर्प्य व्यवहरति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/११७&oldid=347359" इत्यस्माद् प्रतिप्राप्तम्