पृष्ठम्:Laghu paniniyam vol2.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४
आख्यातानि ।
नीयम् । तत्र लटोऽडागमी लकारो लड्; लटस्तादृशो ऌड् लिटस्ता-
दृशः पाणिनिनोपेक्षितत्वादलब्धसंज्ञोऽपि छन्दास 'अपस्पृधतां' 'अचक्रि-
रन्’ ‘अजगन्त’ इत्यादिषु पूर्वोद्धृतेषु लक्ष्येषु दृश्यते । लुङः स्वयमडाग-
मित्वात्तस्मादडागमिलकारस्योत्पत्तिर्न घटते । अकृतनामधेयं लिटोऽडाग-
मिनं लकारं व्यवहारसैकर्याय 'लोङ्' इति व्यपदिशेम । यद्ययं पाणि-
निना पृथक्तेन प्रत्यभिज्ञातोऽभविष्यत्तर्हि महर्षिरेनं लिडं कृत्वा अद्य
लिङाख्यया प्रसिद्धं लकारं लोङमकरिष्यत् । तथाकृते हि नामकरणमु
चितं युक्तियुक्तं च भविष्यति । ह्रस्वैर्मूलस्वरैः प्रकृतिलकाराः; सन्ध्यक्षरैः
प्रकारवाचकाः; कालातिपात चिह्नमडागमः ; प्रत्ययानां दार्ढ्यशैथिल्यानुरो-
घेन टकारो डकारो वा अनुबन्धः इति ।

इहाडागमिनो लकारास्सर्वे भूतकालवाचका दृश्यन्ते । लङ्लुङ्-
लोङः प्रकटमेव भूतकालमाहुः । लङपि क्रियातिपत्तौ निलीनं भूतकाल-
माविष्करोति । अतो भूतकालस्य बोधनमडागमस्य प्रयोजनमिति तर्कों
निर्बाधमुत्तिष्ठति । अडागमो यस्मिन्नासज्यते तदङ्गं स्ववाच्यः कालोऽतीत
इति बोधयेत् । अडागप्रयोगजनस्य एवं निर्णीतत्वात् अडाममिनो लका-
रान् व्यवहारसौकर्याय 'अतिवर्तिनः' इति सामान्य संज्ञया व्यपदिशेम ।
एवञ्च भवन्तीति व्यपदिष्टस्य लटो अतिवर्ती लङ् नाम्ना अतिवर्तिभवन्ती,
संक्षेपेण अतिभवन्ती वा स्यात् । अर्थेन च वर्तमानस्यातिक्रान्तताप्रदर्श-
नद्वारा भूतकालमुल्लिखेत् । अद्यतनीति संज्ञितो लुङ् निरुपाधिकमेव भूत-
कालमभिदध्यात् । परोक्षेतिप्रथितस्य लिटोऽतिवर्ती लोङ् नाम्ना अतिव
र्तिपरोक्षा अतिपरोक्षा वा स्यात् ; निर्दिष्टभूतापेक्षया भूततरं च कालं बोधयेत् ।
भविष्यन्तीति व्यवहृतस्य लृटोऽतिवर्ती ऌडू नाम्नातिवर्तिभविष्यन्ती,
अतिभविष्यन्ती वा स्यात् ; क्रियातिपत्तिरिति परिभाषितं कालातिवर्तनं
च दर्शयेत् । प्रकारवाचिनां लिङ्- लोट् लेङ्-लेटां विधायकभवन्ती,
नियोजकपरोक्षा, उपसंवादकाद्यतनीत्यादि नामकरणं सुकरम् । एवं प्रकृ
तिभूतत्वेन मुख्यानां चतुर्णामाख्यातानां भवन्ती, परोक्षा, अद्यतनी, भवि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/११५&oldid=347357" इत्यस्माद् प्रतिप्राप्तम्