पृष्ठम्:Laghu paniniyam vol2.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
वनो चान्तर्भावयतीति, त्रैकालिकानां भावानां निर्देशे अयमेवोपयुज्यत
इति च वर्तमानकाल एव प्रकाराणामुचितत्वेनाङ्गीकृत इति युक्तिस्त्रानुमीयते ।
छन्दस्यपि भूतवाचकादङ्गादुत्पन्नस्य प्रकारवाचिनो लिङादेरर्थसाङ्गत्यम-
स्तीति प्रतिज्ञातं न केवलं नोत्सामहे, अपित, प्रत्यतार्थसाङ्गत्य
सम्भव एवं
विरल इत्यपि ब्रूमः । कालवाचिनामङ्गात् प्रकारवाचिनामुत्पत्तिर्युक्तिसहे-
त्येवास्माकमभिसन्धिः । ऋग्वेदात् प्राचीनतरं ग्रन्थं कञ्चिच्चेदलप्स्या महि
निर्णयमत्राकरिष्याम
Fhos 1
157
Expircinin, 1
PS SE
१०३
उज़ार
DH
कालस्यावान्तरविभागेऽपि प्रारम्भे स्थिताया व्यवस्थाया असकृत्
परिवर्तनान्यासन्नित्यनुमीयते । कालः किल क्षणिकसन्ततौ, सन्निकृष्टविप्र-
कृष्टौ इत्यादीन् बहून् विभागानर्हति । ते च भूतस्यैव भूयसोपयुज्यन्ते ।
वर्तमानो ह्यवधिभूतत्वेन शून्यप्रायत्वाद्विभागाक्षमः । भावी चापरिज्ञेयत्वा-
दनिश्चितगतिः। अतो भूतवाचिनस्त्रयो लकारा दृश्यन्ते । तत्र लिटः
परोक्षेति पूर्वाचार्याणां संज्ञा तस्य विप्रकृष्टभूतबोधकत्वमाचष्टे । एवमद्य-
तनीति लुङः संज्ञा तस्यासन्नबोधकत्वं च । अनद्यतनभूते विधानात्
'नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः' इति निषेधाच्च लङ् क्षणिकविप्र-
कृष्टं कालं बोधयतीति वक्तव्यम् । वर्तमानेऽपि लक्लङलिटश्छन्दसि
दृश्यन्ते । पाणिनिश्च 'छन्दसि लुक्लइलिटः इति सूत्रयति । किन्तु
सूत्रस्यास्य भाष्यानारुढत्वादर्थो न निर्णीयते । काशिकाकारो धातुसंबन्धे
विधिरयमिति वदन् 'अहं तेभ्योऽकरं नमः' इत्याद्युदाहरति । तद्व्याख्याता
हरदत्तः पुनः 'उदाहरणेषु धातुसम्बन्धो मृग्यः' इति परमभ्युपगच्छन्
जोषमास्ते । अतस्तिष्ठत तावत् कालभेदनिर्णयचर्चा । यावता प्रकृतस्यात्य-
न्तमुपयोगस्तावात् कृतश्च विचारः ।
"
अत्र कालवाचिनः प्रकृतिलकाराः, प्रकारवाचिनो विकृतिलकारां
इति विभागस्वीकारे लडेकोऽस्माभिरुपेक्षितस्तिष्ठति । स हि कालवाच-
कोऽपि सन् अन्येषामङ्गेभ्य उत्पन्नो दृश्यते । तत्र का गतिः ? प्रकृति-
लकारेभ्यः प्रकारवाचका इव अडागमी कश्चिल्लकारश्धोत्पद्यत इति कल्प.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/११४&oldid=347356" इत्यस्माद् प्रतिप्राप्तम्