पृष्ठम्:Laghu paniniyam vol2.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
रयोः संबन्ध इति विचार्यते । अर्थमुपाधिं कृत्वा विभागे क्रियमाणे काल-
बाचिनः प्रकारवाचिनश्चेति लकारा द्विधा भिद्यन्त इति पूर्वमेवोक्तम् । वर्त
मानकालिको लट्; भूतकालिका लङ्–लुङ्-लिटः; भाविकालिकौ ऌट्-
लुटौ इति षट् कालवाचिनः । किन्तु लुटो गौणत्वेनोपेक्षितत्वात् लुडेक
एवात्र गण्यते । शेषा लिङ्, लेट्, लेङ्, लोट्, ऌङ् इत्येते प्रकारवा-
चिनः । अयमर्थः पट्टियापि
Tipp In
लकारा:
कालवाचिन:
20
प्रकारवाचिन:-
लट्
...
लङ्-लुड्. लिट: 7
लोट्-
लिङ्-
लेट्-
FRIDBINES P
लेड्-
वर्त
भूत
भांवि


अतिसर्जक:
विधायकः
अतिपातकः
उपसंवादकः
नियोजक: THIS
अत्र लडेक उपेक्ष्यते चेत् कालवाचिन एवं प्रकृतय, प्रकारवाचिन
एवं विकृतय इति पट्टिकैषा स्फुटं प्रदर्शयति । उपपन्नश्चोभयेषा-
मीदृशः संबन्धः एकैकस्मादपि कालवाचकात् सर्वे प्रकारवाचका उत्पद्यन्त
इति । कालोपाधिं विना क्रियाया ग्रहो न भवति । अतः कालद्योतनाय
कालबोधकप्रत्ययादिविशिष्टादवात् प्रकारवाचिनां लकाराणामुत्पादनम् ।
यथा- 'देवदत्त गच्छ ग्राम' इति वर्तमानकालावच्छिन्नामाज्ञां बोधयितुं
लटोऽङ्गाल्लोट्प्रयोगः । ‘मुञ्जीत मया सह भवान्' इति भुञ्जानस्य वाक्ये
वर्तमान कालिकनिमन्त्रणबोधनाय लटोऽङ्गाल्लिङ् । चापोत्सवं द्रष्टुं कृष्णो
मथुरां जगन्तु, किमिति मातुलं तत्र जघान इति भूतकालिकमतिसर्ग
दर्शयितुं 'जगन्तु' इति लिटोऽङ्गाल्लोट् । सत्यसन्धाश्चेत् पाण्डवा बभूयुः
सुख च ते जगम्युः इति भूतकालावच्छिन्नं हेतुहेतुमद्भावमभिधातुमु भयत्र
लिटोऽङ्गाल्लिङ् । एवमर्थान्तरेषु लकारान्तरेषु च योज्यमुदाहरणम् । अधुना
पुनः प्रकारवाचिनो लकाराः काल मेदमविवक्षित्वैव प्रयुज्यन्ते । अथापि
वर्तमानवाचिनो लटोऽङ्गादेव लिङ्लोटौ निष्पाद्येते । संख्यायामेकत्वमिव
काले वर्तमानः सामान्यमिति, व्यावहारिको वर्तमानकाल आसन्नी भूतमा -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/११३&oldid=347355" इत्यस्माद् प्रतिप्राप्तम्