पृष्ठम्:Laghu paniniyam vol2.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
शिक्षा स्वया वयं मघवन्निन्द्र शत्रूनाभष्याम महतो मन्यमानान् ।
स्वं त्राता त्वमुनो वृधे भूविद्यामेषं वृजिनं जीरदानुम् । १ । १७९ । ५०
मघवन् इन्द्र! त्वया वयं महतो मन्यमानान् शत्रून् अभिष्याम- अभि-
भवितारो भवेम । त्वं त्राता । त्वमु - त्वमेव रक्षकः । नः अस्माकं वृधे-वर्द्धनाय
भूः—भव । वयं इषमन्नं, वृजिनं बलं, जीरदानुं – चिरजीवित्वं च विद्याम लभेमहि ।
दानो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपावृधि ।
Publess
प्राची यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो विदिद्युतः । २ । २ । ७।
कर हे अमे त्वं नः बृहतो (धनविशेषान् ) दाः -देहि । तथा सहस्रिणो सहस्र-
संख्याकान् (पुत्रपौत्रादीन् ) दाः देहि | श्रुत्यै वाजमन्नं दुरो न तस्य द्वाराण्यपि अपा-
वृषि – अपावृणु। (तदर्थ) द्यावापृथिवी ब्रह्मणा कर्मणा प्राची - अनुकूले, कृषि कुरु ।
न आदित्यमिव शुक्रं दीप्तं त्वां उषसः उषःकालाः विदियुतः— विद्योतयन्तु ।
ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके ।
-
स्वः
हमा गि
गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः । ३ । ३९ । ७ ;
विजानन्निन्द्र: तमसः ज्योतिर्वृणीत । प्रकाशं सम्भजतु । वयं दुरितात्
अभीके भयरहिते आरे स्थाने स्याम । सोमपाः सोमस्य पातः सोमवृद्ध,
सोमेन वृद्ध
इन्द्र त्वं अस्य पुरुतमस्य कारो: स्तोतुः इमा गिरो जुषस्व ।
12 3150
प्रति त्वाद्य सुमनसो बुधन्ताऽस्माकासो मघवानो वयं
तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः । ७ । ७८ ५।
हे उषः त्वा प्रति अद्य सुमनसः बुधन्त बुध्यन्ताम् । आस्माका: मघवानः
वयं च बुध्येमहि । हे उषसः विभाती: विभान्त्यो यूयं तिल्विलायध्वं-- निग्द्धं प्रकाशं
कुरुध्वम् । यूयं स्वस्तिभिः सदा नः पात च ।
अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दर्धात रोदसी यजध्यै ।
अवा नो मघवन् वार्जे सातावग्ने विश्वानि दुरिता तरेम । ६ । १५ । १५
if figs
हे अग्ने प्रयांसि—हव्यानि, सुधितानि- सुष्टु निहितानि अभिरूयः-
पश्य रोदसी यजध्यै यष्टुं त्वां निदधीत-अस्मभ्यं निघत्ताम् । हे मघवन् ! वाजसातौ
युद्धे नः अव । वयं विश्वानि दुरितानि तरेम | THE
DES
-
एतावता प्रपञ्चेन लङ्लुङावडागमवर्जितौ बहुत्र च्छन्दसि विधि-
निमन्त्रणादीन् लिङर्थानभिधत्त इति ज्ञायते । मायोगे चैतयोस्तादृशोऽर्थो
लोकवेदसाधारण्यात् निर्विवादः । एवं लङ्लुङोरडागमाभावो रूपमिवार्थ-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/११०&oldid=347352" इत्यस्माद् प्रतिप्राप्तम्