पृष्ठम्:Laghu paniniyam vol2.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००
आख्यातानि ।
न हि
मपि किं विकारयतीति सन्देहे जातो विनिर्णयः । युक्तश्चार्थविकारो
रूपविकारानुयायी । किञ्च 'त्वमेवं मा कार्षीः' इति निषेधवाक्ये यादृशो
-लुङर्थस्तादृश एव 'त्वमेवं कार्षीः' इति विधिवाक्येऽपि भवितुमर्हति ।
भावदशायामविद्यमानोऽर्थः कथमभावदशायां नव इव प्रादुर्भवेत् ?
‘घटोऽस्ति' 'घटो नास्ति' इति वाक्ययोरस्तेरर्थभेदो न्याय्यः । अतो
लङ्लुङोर्निषेधवाक्ये प्रत्यक्षः प्रवर्तनारूपोऽर्थो विधिवाक्येऽपि तस्य सत्ता-
मनुमापयति । उदाहृताश्च तादृशाः प्रयोगा वेदेभ्यः । लोके तु प्रवर्त-
नार्थे लङ्लुङोः प्रयोग एव विरळीभूय निषेधमात्रे क्वचिदद्य दृश्यत इति
स्थितिः । अथात्र पाणिनिः किं प्रतिपद्यत इति पश्यामः । आचार्यस्ता-
वत् विधिनिमन्त्रणादौ सामान्येन लिडं विधाय तत्रैव लोटं चातिदिश्य
तत्तत्पदसमभिव्याहारादिषु विशेषानप्युपदिश्योपसंहारे 'माडि लुङ्'
'स्मोत्तरे लङ् च' इति सूत्रयति । एतेन माथ्योगे विधिनिमन्त्राणादिषु
लिङोऽपवादो लुङ्लङावुक्तौ भवतः । लोटः प्रयोगेऽपि महर्षिर्न कुप्येत् ।
व्याख्यातार एव सर्वापवादो लुविधिरिति कलहायन्ते । अडागमश्च
विनापि माङ्योगं छन्दसि बहुलं प्रतिषिद्धः । बहुलस्य च महती शक्तिः ।
अतः पुच्छविकलयोल्लुङ्लुङोश्छन्दसि लिङर्थे प्रयोगः पाणिनेरनभिमतो नेति
ज्ञायते । एवञ्च च्छन्दसि विधिनिमन्त्रणादिष्वर्थेषु लिड्, लोट्, लेट्,
(अडागमहीनौ) लङ्लुङौ इति पञ्च लकारा भवन्ति । एषु लुङेकस्त्यक्तुं
शक्यते । तथाहि — इह लङ्-लिङ्-लोट्-लेट एव लकारान्तरस्यामादु-
त्पन्ना दृष्टाः । न तु लुङ् कदापि । अतो लुङोऽङ्गेष्वपि पुच्छविकलानि
दृष्टानि जेषं, भूत्, ख्यत्, चुच्यवत् इत्यादीनि रूपाणि लङ एवेति
कल्पयितुं दृष्टो न्यायः । लुङ्लङो: प्रत्ययैक्यात् लुङगेऽङ्गे समुत्पन्नो लङ्
व्यावर्तयितुं न शक्यते इत्येव । अस्यां कल्पनायां लङ एकस्यैव पुच्छ-
च्छेद आवश्यकः स्यात् इत्यस्ति कश्चिल्लाभोऽपि । लङरूपाणि यानि पुनः
पुच्छहीनानि दृश्यन्ते तानि लुङोऽङ्गाल्लरूपाणीति वदिष्यामः । इत्थं च
सपुच्छो विपुच्छोऽपि प्रचरन् लकारो लडेक एवेति लघुकृतो भारः ।
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१११&oldid=347353" इत्यस्माद् प्रतिप्राप्तम्