पृष्ठम्:Laghu paniniyam vol2.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(श्नम्) ७

भिनदः,
( भिनत्,
{
करवः,
तनुथाः,
आख्यातानि ।
युनजन्, यु
ऋणक्, युञ्जत
मनवते
ऋणोः
वृणाति
गृभ्णाः, क्षिणाम् वृणीत.
९३
(ना) ९
एषु वेदेभ्य उपात्तेषूदाहरणराशिषु प्रथमपङ्किगतानि रूपाणि प्रत्ययस्य
अडाडागमादिभिस्तैस्तैः प्रक्रियाविशेषैर्लेट एवेति स्पष्टम् । तेषु च यथा-
क्रमं शबादयः नापर्यन्ता नवापि विकरणप्रत्यया दृश्यन्ते । एषामत्र स्था-
लीपुलाकन्यायेनोद्धृतत्वात् सन्ति चैकैकस्याप्यनेकान्युदाहरणान्तराणि ।
अतो विकरणभेदो लेट्यप्यस्तीत्यवश्यमङ्गीकर्तव्यमापतितम् । यस्य धातो-
र्यद्विकरणं लिङ्लोडादिष दृष्टं तस्यैव तदेव लेट्यप्युपलभ्यते चेद्विकरणभे-
दवत्त्वस्य धर्मस्य लेटि व्याप्तिः कथं वार्यताम् ? पाणिनिः पुनः ‘सिब्बहुलं
लेटि' इति सिपमेकमेव लेटि विकरणं विधाय सर्वमिदं बाहुलकात् सिद्धं
मन्यते । अहो बत दुर्भरो भारो बाहुलकस्य शिरसि प्रक्षिप्तः ! भूयस्यंशे
प्रवृत्तिरल्पीयस्यप्रवृत्तिश्च हि बाहुलकेन क्रियते ।
अथोद्धृतेषूदाहरणराशिषु द्वितीयपङ्किगतानि रूपाणि परीक्षामहे ।
एषु विकरणप्रत्यया यथायथमायोजिताः; इलोपतान्तन्तामादेशादीनि च
ङिल्लकारकार्याणि दृश्यन्ते । किं बहुना ? अडागमोऽप्यद्रक्ष्यत चेदेतानि
निस्संशयं लरूपाण्यभ्युपागमिष्याम । अत्रापि पाणिनीय प्रस्थाने 'बहुलं
छन्दस्यमाङयोगेऽपि' इति अडागमप्रतिषेधे कृतं बाहुलकमेव शरणी-
कृत्य लङो रूपाणि ग्राह्याण्येतानि । एवं कथाप्रसिद्धस्य उष्ट्रस्य पृष्ठं
वणिगिव च्छान्दसप्रक्रियायामाचार्यो बहुलस्य शिरो निश्शेषमवसादयितुं
प्रवृत्त इव प्रतिभाति । काममास्तां तावदेषां लङो विकृतरूपत्वमेव, यावत्
गत्यन्तरं नोपलभामहे ।
SGDF
अथ विधान्तरेण विचित्राण्युदाहरणान्युद्धरिष्यामः-
P

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१०४&oldid=347346" इत्यस्माद् प्रतिप्राप्तम्