पृष्ठम्:Laghu paniniyam vol2.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
जुजोषत्—-जुजोषन्
, जुजोषसि-जुजोषथः-जुजोषथ, - जुजोषते ( एकवचनं )
मुमोचति - मुमुचः ( चित्) चिकेतन्-चिकेतः चिकेथ:; (अस् ) अनसामहै; वतत्
ववर्तत्; सासहत् ; रारणत् ; वावृधते ।
९४
२ – शशा: ; दुधोत्; दधर्षीत् ; (घृष ईट् ); चकनन्त; ततनन्त; पप्रथन्त;
मामहन्त; वावृधन्त; विव्यचन्त; रुरुचन्त ।
३ – ( गम् ) जगम्यात्-जगम्यु, जगम्यातम्-जगम्याम् । ( अश् ) अनश्यात्-
आनश्याम्; चक्रिया;; बभूयात् -बभूयाः; तुतूर्यात् ; दुधुवीत; ववृतीनहि; ववृत्यात् ;
ससद्यात् ; पपीयात् ।
४– (मुच् ) मुमोक्तु–मुमुग्द्धि मुमुक्तम् ; मुमोचतं मुमोचत । (दिश् ) दिदेष्टु-
दिदिढि-दिदिष्टन; ववृत्तन; बभूतु; शशाधि; ववृत्तन; ववृत्स्व; ववृद्धम् ; दहश्राम्
मामहन्ताम्-मामहस्व |
५- गमस्तिप्सिपोः) अजगन्, अजगन्त, अजगन्तन । (च्यु) अचुच्यवीन्,
अचुच्यवः; अचुच्यवीतन ।
(ग्रह) अजग्रभीत् ; अजग्रभं; अशुश्रवि । (दिशआ-
त्मने-तप्रत्यये) दिदिष्ट; अपस्पृर्धेताम् ; अचक्रिरन्; अपेचिरन्; अचचक्षम् ।
.
-
अत्र पूर्ववत् प्रथमे उदाहरणराशौ प्रत्यये वडागमदर्शनात् प्रस्फुटो
लेट्; मुञ्चतिवर्तत्योर्गुणविकल्पो दृश्यते; वर्ततिः परस्मैपदे प्रयुक्त इत्या-
दयो विशेषास्त्वकिञ्चित्कराः । धातूनां लिटीव द्विवेचनं परं सम्पादनी-
यम् । तत्र का गतिः ? नैते धातवो जौहोत्यादिकाः । स्वीकृतेऽपि वा
जुहोत्यादौ पाठे 'जुजोषत्' इत्यकारः शपः लौ कथं श्रूयेत? अथ पुन-
रेतेषु यङ्लुकं कल्पयिष्याम इति चेत्तदापि चर्करीतस्यादादिकत्त्वाच्छपो
लुक् जागति । एवं खड्गो वा कुठारो वा भवतूपकरणम्, शपः कण्ठ-
च्छेदः सर्वथा दुरत्ययः संवृत्तः । किञ्च यङ्लपक्षे गुणदीर्घादीनामभ्यास-
कार्याणां वारणाय नवो यत्न आस्थातव्यः स्यात् । पुनरप्येवं बहुलब्रह्मास्त्रं
प्रयोक्तव्यमापतितम् । प्रकृते च तद्दूरान्मृग्यमास्ते । अदिप्रभृतिभ्यः
शब्लुकश्छन्दसि बहुलवचनान्न केवलं लुगत्र स्वयं निवर्तते, अपि तु
प्रवृत्त्युन्मुखान्यभ्यासकार्याण्यपि निवर्तयतीति वक्तव्यम् । 'छन्दसि दृष्टा-
नुविधिः' इति वचनमवलंब्य याभिरिष्टरूपाणि सिद्ध्यन्ति ता एव
प्रवर्तन्ते इति वा समाधेयम् । उभयथापि शास्त्रगौरवं हीयते ।
व प्रक्रिय
प्रक्रियाः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१०५&oldid=347347" इत्यस्माद् प्रतिप्राप्तम्