पृष्ठम्:Laghu paniniyam vol2.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
९१
वकारो लुप्तः, म इत्यस्य मकारस्तु न । द्विबहुवचनयोर्युष्मंदो वां-व-
सादेशो व्याख्यातः । अस्मदो नौ-नसादेशयोरुपपादनाय नकाररूपा न
वा काचिदस्मत्प्रकृतिः कल्पनीया । अनयोरपि वांवसोरिव द्वितीया रूपमेव
षष्ठीचतुर्थ्योरप्यतिदिष्टम् । 'डेप्रथमयोरम्' इत्यादयः प्रत्ययविकाराः
पाणिनिनैव दर्शिताः । तत्र पञ्चम्या अत् अदन्तशब्दसाधारण एव ।
किन्तु अकारो नापेक्षितः । प्रकृत्यन्तदीर्घस्त्वदन्तेष्वेवेति विशेषः । त्वया
मया इत्यत्र इनादेशाभावः, भिस ऐसादेशाभावश्च च्छन्दसि सुलभ एव ।
. उत्तरो लोकेऽपि इदमदसोर्दृश्यते । मह्यम् इति मकारस्य हकारो हृग्रहो-
छन्दसि दृष्टत्वायत्यस्तकोटिं न प्रविशति । चतुर्थ्येकवचनस्यापि भ्यस्तु
व्यत्यस्तः । ‘ङेप्रथमयोरम्' इत्यस्य स्थाने 'चतुर्थीसर्वनामस्थानयोरमङ्’
इति सूत्रिते ‘भ्यसो भ्य'मुपपद्यते, शसो नविधिश्च त्यक्तुं शक्यते । ङसः
सलोपं कृत्वा प्रकृतिद्वित्वेन मम इति, मध्ये अकारागमेन तव इति च
षष्ठयेकवचने सिध्येताम् । युष्माकं अस्माकं इति षष्ठी बहुवचनं अण्तद्धि-
तस्यैव आदिवृद्धिरहितं क्लीवप्रथमैकवचनरूपं स्यात् । तद्धितो वा वैपरी-
त्येन षष्ठचन्तान्निष्पन्नः स्यात् । तावकमामकावपि तद्धितौ हि दृश्यते ।
तृतीयासप्तमीबहुवचन यो 'बहुवचने झल्येत्' निषेद्धव्य इत्येव ।
आँङि, च्छन्दसि औट्-मात्रे उभयत्र अमि च अमि पूर्वो निवार्यः ।
जसि स्मकारयोगो न क्रियते । युष्मदि प्रकृतिदीर्घः, अस्मादि मतुप इव
मस्य वादेशश्च क्रियते । 'योऽचि' इत्यादेशे शस्- टाङिषु इति परिगणनं
कर्तव्यम् । अहम् इत्यत्र मलोपानन्तरं हकारागमो द्रष्टव्यः । स्वसृभाषा-
स्वप्ययं हकारो घकारात्मना दृश्यते ।
लोके
आख्यातानि ।
आख्यातानां पदभेदः, कालप्रकारविवेकः, प्रयोगविभागः, पुरुष-
व्यवस्था च तिङन्तप्रक्रियारंभ एव प्रतिपादिता । ततो वैदिक प्रकरणे
लोट्प्रस्तावे लिङ्-लेट्-लोटां बहुत्रार्थसाम्यं वाचद्रूपसाम्यं च दाशतम् ।
अथ तदुपरि गाढतरो विचारः क्रियते-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१०२&oldid=347344" इत्यस्माद् प्रतिप्राप्तम्