सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol2.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वनामानिं ।
इतोऽपि विचित्रा युष्मदस्मदोर्विभक्तिरूपावलिः । त्वमावेकवचने,
युवावौ द्विवचने, युष्मास्मौ बहुवचने चानयोः प्रकृतिः । तत्र बहुवचने
श्रयमाणः स्मकार: स्मैस्मास्मिनुस्वपि दृष्टं सर्वनामान्तरं, धातुषु विकर-
णप्रत्ययवद्रूपनिष्पादकः प्रत्ययो वा स्यात् । पूर्वस्मिन् पक्षे स्म इत्यस्य
सः इति अन्य इति वा अर्थश्चेत् बहुवचनरूपाणि प्रकृतिद्वयसमासादुत्प-
नानीति वक्तुं शक्यते । अर्थश्च सङ्गच्छते–यु - त्वम्; स्म=ते, अन्ये
वा । त्वं चान्ये च युष्मे ( छान्दसं प्रथमाबहुवचनम्) इति । अस्मच्छब्दो
मस्म इति मकारादिरासीदिति तर्क्यते । एकवचनेषु हि मां मया मे
मह्यं....इति सर्वत्र मकारः श्रूयते । स्वसृभाषासु चास्ति मकारः । तथा च,
म=अहं; स्म=अन्ये; अहमन्ये च अस्मे इत्यर्थयोजना | त्व इत्येकवचन-
प्रकृतिरेव तकारलोपेन व इति संपद्यते । यस्य औटि वां इति, शसि वस्
इति च रूपे एव षष्ठीचतथींद्विवचनयोरपि निघातयुष्मदादेशौ विहितौ ।
तकारलोपेन जर्जरीभूतत्वादेव निघातत्वं, वाक्यपादयोरादौ प्रयोगनिषे-
धश्च । युवां युवाभ्यां इत्यादीनि द्विवचनरूपाणि यु इति व (=त्व-त)
इति च प्रकृतिद्वयस्य समानार्थकस्य समासादुत्पन्नानि । एवञ्च त्वं+त्वं=
युवां इति द्विवचनार्थः स्फुटः । अत्र पर्यायभूतयोः प्रकृत्योर्योगेन द्विवचनं
निष्पादितम् । कासुचित् भाषासु प्रकृतेरेव द्वित्वेनापि द्विवचननिष्पत्तिर्दृष्टा ।
संस्कृते तावत् भाषान्तरेष्वदृष्टस्य 'सरूपाणामेकशेष एकविभक्तौ' इत्येक-
शेषसिद्धान्तस्य बीजमिदमेव स्यादिति तर्कयामि । उक्तनयेन आवां,
आवाभ्यां इत्यादिषु अस्मच्छब्द द्विवचनरूपेषु अ+व=म+त्व= अहं+ त्वं
इति व्यक्तिद्वित्वम् । मकारलोपेन शिथिलीभूता अ इति प्रकृतिय
दीर्घीक्रियते । अस्मिन् नये अहं च त्वं च आवां इति अस्मद्युष्मत्प्रयुक्ते
द्वित्व एव द्विवचनप्रयोगोऽन्वर्थ: स्यात् । अहं च स च आवां इति
उत्तम प्रथमपुरुषप्रयुक्ते द्वित्वे प्रयोगस्तु प्रकृत्यर्थविस्मरणानन्तरं प्रवृत्तो
वक्तव्यः ।
एकवचनस्य तेमयादेशौ त्व म इति प्रकृतिभ्यां षष्ठीचतुर्थीद्रि-
'तीयैकवचनप्रत्ययानां 'शे' आदेशेन व्याख्यातव्यौ । अत्र व इत्यस्य
यां पष्ठीचतुश्रीद्वि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१०१&oldid=347343" इत्यस्माद् प्रतिप्राप्तम्