पृष्ठम्:Laghu paniniyam vol2.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वनामानि ।
चेयमपूर्वा शैली भाषासु ।
अद्यत्वेऽपि हि बालाः, अवैयाकरणाः प्रौढाश्च
'पुमान् स्त्रिया' इति सूत्रं 'पुमांस्त्रिया' इति पाठन्ति । शसो नादेशवि-
घानेन, पदान्तनकारात् सस्य धुडागमकल्पनेन, 'पुमः खय्यम्परे' इत्यादि
रुविधिना च वास्तवी सन्धिप्रक्रिया तिरोभवति; सा येन स्फुटा स्यात्
स प्रकार उपन्यस्त इत्येव विमर्शस्यास्य सारः । 'ऊर्दू,' 'अमार्ट्' इत्या-
दिषु रेफपूर्वकसंयोगेष्विव न्स्, न्त् इति नकारपूर्वकसंयोगेष्वपि क्वचि-
लोपो न स्यादित्येव रुप्रकरणस्य धुडिधेश्च फलितोऽर्थ इति विषयसंग्रहः ।
४. सर्वनामानि ।
,
इह प्रत्ययोत्तरपदयोर्दृष्टं रूपमेव प्रातिपदिकानां सहजमिति नय-
मवलम्ब्य त्यत्तद्यदेतद्युष्मदस्मदो दान्तान् इदंकिमी मान्तौ, अदसं
सान्तं च पठित्वा त्यदाद्यत्वेन, शेषे लोपेन, कादेशेन चैतान् विभक्तिषु
अकारान्तान् करोत्याचार्यः । यदि पुनस्तद्धितापेक्षया विभक्तिरूपावलिरेव
प्रधानमिति गृह्यते तदैतान् अन्तान् पठित्वा प्रत्ययोत्तरपदयोर्दकारोऽन्ता-
गमो वक्तव्यः स्यात् । करोति चैवमन्यशब्दविषये 'अषष्ठ्यतृतीयास्थ-
स्यान्यस्य' इति सूत्रयन्नाचार्यः । क्लीवे च डतरादिपञ्चकस्य स्वमोरदादेशं
विदधाति । अदन्तपाठपक्षे त्यत्तद्यदेतदोऽपि डतरादिषु निवेशनीयाः स्युः ।
एषु यच्छब्दस्य अदन्तसर्वनामान्तरसाधारणान्येव रूपाणि । त्यत्तदेतदां
‘तदोः सः सौ...........' इत्युक्तः सादेश एको विशेषः । 'किमः कः'
‘कुतिहोः’ ‘इदम् किमोरीश्की' इति विधिभिः किंशब्दस्य स्वादिषु अका-
रान्ता, प्राग्दिशीयतद्धितेषु उकारान्ता, उत्तरपदे क्वचित् इकारान्ता व
प्रकृतिः । ‘किमोऽत्यपि' कु इत्यादेशेनैव सिद्धे 'क्वाति' इत्यादेशान्तर-
विधानं 'ओर्गुण' - भयादेव कृतम् । तथा क्लीबे स्वमोरपि 'कि' इत्यादेशे
अमि पूर्वेण रूपं सिद्ध्यति । प्रक्रियासौकर्यापेक्षयैवाचार्येण तथा न कृतम् ।
एवम् इदंशब्दस्य अ अन इम इति प्रकृतित्रयादुत्पन्नानि रूपाणि ।
अदसस्तथा अमु इति भूयसा प्रकृतिः ।
प्रकृति यात्पन्न

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१००&oldid=347342" इत्यस्माद् प्रतिप्राप्तम्