पृष्ठम्:Laghu paniniyam vol1.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ लघुपाणिनीये १७६४ । प्रकारे गुणवचनस्य । (८-१-१२) प्रकार: सादृश्यम्पटुपटुः, पटुपट्वी, पटुसदृशीत्यर्थः । एवं मन्दमन्दं इत्यादि । १. [उपसंहारः आधिक्ये द्वे वाच्ये – 'भीतभीत इव शीतमयूखः' अतिभीतः । आनुपूर्व्ये द्वे वाच्ये—मूलेमूले स्थूलः, अप्रेऽप्रे कृशः । ३. सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः । सर्पःसर्पः, बुध्यस्वबुध्यस्व | सर्पः ३, बुध्यस्व ३ । २. ४. क्रियासमभिहारे च–याहियाहीति याति । ५. ६. कर्मव्यतीहारे सर्वनाम्नो द्वे वाच्ये समासवञ्च बहुलम् । असमासवद्भावे पूर्वपदस्य सुपः सुर्वाच्यः । अन्योन्यं विप्रा नमन्ति । 'अन्योन्येषां पुष्करैरामृशन्तः' । एवं परस्परम् । उत्तरोत्तरम् । ७. "" स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा । अन्योन्यम्, अन्योन्याम् । हस्यतालं'–परस्परस्यामित्यर्थः । परस्परामर्पितहस्ततालं तत्कालमालीभिर- १७६५ । यथावे यथायथम् । (८-१-१४) यथास्वमिति वीप्सायामव्ययीभावः । यथाशब्दस्य वीप्सायां द्वित्वं क्लीबस्वं च निपात्यते । यथा - सर्वे यथायथमुपविशन्ति-स्वस्वोचितेषु स्थानेष्वि त्यर्थः । उपसंहारः ॥ ये शब्दशुद्ध्यै परमाचरन्ति समाप्लवं व्याकरणाम्बुराशौ । सुखावगाहक्षम एष तेषां मयेह सोपानपथो निबद्धः ॥ १ ॥ समुद्धृतं नाखिलमेव सूत्रं समुद्धृतेष्वप्यनतिस्फुटस्य । बालानुरोधेन यथाश्रुतार्थव्याख्यानमेवारचितं मयात्र ॥ २ ॥ क्षुद्रश्च सोऽयं मम मन्तुरन्तर्वाणिप्रवीरैर्ननु मर्षणीयः । अरुन्धतीदर्शनरीतिरेव मयाहता यत् सुखबोधनाय ॥ ३ ॥ अर्थनीय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५७&oldid=348054" इत्यस्माद् प्रतिप्राप्तम्