पृष्ठम्:Laghu paniniyam vol1.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विरुक्तिप्र० ] आकाङ्क्षाकाण्डः । द्विरुक्तिप्रकरणम् ॥ ४३०९ १७५६ । सर्वस्य द्वे । (८-१-१) इतः परं समुदितस्य पदस्य द्वित्वं विधीयत इत्यधिकारः । १७५७ । तस्य परमाम्रेडितम् । (८-१-२) द्विरुक्तस्य परं रूपमाम्रेडितसंज्ञम् || tionis १७५८ । नित्यवीप्सयोः । (८-१-४) पौनःपुन्ये वीप्सायां च समुदितस्य पदस्य द्वित्वम् । यथा- पचतिपचति । भुक्त्वाभुक्त्वा । भोजंभोजम् । वृक्षंवृक्षम् सिञ्चति । १७५९ । उपर्यध्यधसः सामीप्ये । (८-१-७) उपर्युपरि, अध्यधि, अधोऽधः । सामीप्यमत्र द्योत्यम् । १७६० । वाक्यादेरामन्त्रितस्यास्यासम्मतिकोपकुत्सनभर्त्सनेषु । (८-१-८) - असूयायां – सुन्दरसुन्दर वृथा ते सौन्दर्यम् । सम्मतौ – देवदेव वन्द्योऽसि । इत्यादि । १७६१ । एकं बहुव्रीहिवत् । (८-१-९) द्विरुक्त एकशब्दो बहुव्रीहिवत् स्यात् । तेन सुब्लोपपुंवद्भावौ । एकैकस्मै देहि । वीप्सायां द्वित्वम् । १७६२ । आबाधे च । (८-१-२०) पीडायां द्योत्यायां पदस्य द्वित्वं बहुव्रीहिवद्भावश्च । गतगतो मे समः । गतगता सीता । पुत्रशोकार्तस्य दशरथस्य वचनम् । १७६३ । कर्मधारयवदुत्तरेषु । (८-१-११) वक्ष्यमाणेषु द्वित्वेषु कर्मधारयवद्भावोऽपि स्यात् । प्रयोजनं सुब्लोपपुंवद्भावावेव | खरे विशेषोऽस्तीति वचनम् ॥ ज

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५६&oldid=348053" इत्यस्माद् प्रतिप्राप्तम्