पृष्ठम्:Laghu paniniyam vol1.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपसंहारः] आकाङ्क्षाकाण्डः । अपूर्वसंज्ञापरिभाषगुप्ते सालातुरीयस्य वचोरहस्ये । प्रवेशनद्वारमिदं यदि स्यादवन्ध्य एवात्र परिश्रमो मे ॥ ४ ॥ आयुर्मितं ज्ञेयमिहामितं च तन्त्रं त्वपारं पणिगोत्रजस्य । व्युत्पत्तयेऽध्येयमिदं च सर्वैरिति प्रणीतं लघुपाणिनीयम् || प्रकाशकार्यात् सहजाद् यमर्थ न कौमुदी सा विशदीकरोति । तमेष सौम्यो लघुपाणिनीयबालातपः सुग्रहमातनोतु ॥ ६ ॥ माहेश्वर्यामनघगुणवृद्ध युज्ज्वलायां न को वा संस्कारार्थी सकृदभिषवं प्रार्थयेत्तीर्थझर्याम् ? कृच्छ्रप्राप्ये महति विषये काशिकादौ तदर्थ ये ग्लायन्ति प्रचरितुमिह स्नान्तु ते तन्निपाने ॥ ७ ॥ यो वैयाकरणाधिराज्यपदवीसिंहासनाधिष्ठितं द्रष्टुं वाञ्छति पाणिनि स विविधाः कक्ष्याः समारोहतु । सीव्यन्तं लघु सूत्रजालमुटजे व्याघ्राजिनासीन- मप्येनं सेवितुमुत्सुकस्तु विशतु स्खैरं मदुक्ताध्वना ॥ ८ ॥ इत्याकाङ्क्षाकाण्डः लघुपाणिनीयपूर्वखण्डश्च ॥ ॥ शुभम् ॥ K ॥ शुभम् ॥ ४३९

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५८&oldid=348055" इत्यस्माद् प्रतिप्राप्तम्