ते सिद्धेषु पदेषु नोच्चारणीया इत्यर्थः । चिह्नमात्रमित्, न तु प्रत्ययादीनां
वस्तुतो घटको वर्ण इति तात्पर्यम् ॥
संज्ञान्तराण्यपि बहुत्रोपयुक्तानि प्रकरणेऽस्मिन् कथ्यन्ते –
१८ । वृद्धि)रादैच् । (१-१-१)
‘आत्' इति तपरकरणं निर्देशसौकर्यार्थम् । ऐच प्रत्याहारः । आ,ऐ, औ एते प्रत्येकं वृद्धिसंज्ञकाः ।। ऐ, औ एते प्रत्येकं वृद्धिसंज्ञकाः ।।
१९ । अदेङ् गुणः । (१-१-२)॥
‘अत्' इति ह्रस्वमात्रग्रहणाय निर्देशसौकर्याय च तपरो निर्देशः । अ, ए, ओ एते प्रत्येकं गुणसंज्ञकाः॥
२० । हलोऽनन्तराः संयोगः । (१-१-७)
हलः स्वरै: कालेन वा अव्यवहिताः समुदिताः संयोगसंज्ञकाः ॥ यथा – स्त, श्व, क्ष, स्त्री, क्ष्म्या, त्र्न्य इत्यादयः ।
२१ । अचोऽन्त्यादि टि । (१-१-६४)
अचां मध्ये योऽन्त्यः स आदिर्यस्य स वर्ण: वर्णसमूहो वा टि- संज्ञ: स्यात् । स्वरान्त्येषु शब्देष्वन्त्यस्वरः, व्यञ्जनान्तेष्वन्त्यव्यञ्जनं स्वपूर्वस्वरमिलितं च टिसंज्ञमित्यर्थः । यथा— टिः शब्दः हरि इत्यस्य शब्दः प्रत्यक् इत्यस्य सरस् अजागर्त, ऊर्क् २२ । अलोऽन्त्यात् पूर्व उपधा । (१-१-६५) उपान्त्यो वर्ण उपधासंज्ञः । यथा- गुरु भोस् " किम् उ ओस् इम् टिः अक् अस् अर्त् ऊर्क् - हरि इत्यत्र रेफ उपधा । भोस् इत्यत्र ओकार इत्यादि ।