‘माङ्’ इत्यादिनिपातेषु, ‘तिप्' ‘शानच्' 'ल्यप्' इत्यादिप्रत्ययेषु,
‘कृञ्’ ‘चक्षिङ्' इत्यादिधातुषु च अन्त्या हल इत्संज्ञाः ॥
अथ प्रत्ययेषु कुत्रचिदन्त्यस्य हल इत्संज्ञाया अनपेक्षितत्वा- निषेधमारभते—
१२ । न विभक्तौ तुस्माः । (१-३-४)
विभक्तिप्रत्ययेषु तदादेशेषु च सकारमकारौ विभक्तिप्रत्यया- देशेषु तवर्ग्याश्च अन्त्या अपि नेत्संज्ञका: । 'किमोऽतः' तकारख विभक्तिप्रत्ययेऽपीत्संज्ञास्ति । अनेन ‘भ्यस्' 'भ्याम्' ‘ध्वम्' ‘स्मात्” 'स्मिन्' इत्यादिविभक्तिषु तदादेशेषु चान्त्यस्य हलो न इत्संज्ञा ||
१३ । आदिर्जिटुडवः । (१-३-५)
धातूनामादौ 'बि' 'टु' 'डु' इत्येतान्यक्षराणीत्संज्ञानि । यथा- त्रिमिदा स्नेहने । टुर्णाद समृद्धौ । डुकृञ करणे ।
प्रत्ययादिः :
१४ । षः प्रत्ययस्य । (१-३-६)
षकार इत् । यथा - ध्यञ्, ष्फ इत्यादौ । -
१५ । चुटू । (१-३-७)
प्रत्ययादी चवर्गटवर्गावित्संज्ञौ । यथा- जरी ञ्यः, टच्, डण् इत्यादौ ।
-
१६ लशक्कतद्धिते । (१-३-८)।
नामपदेभ्यो नामान्तरव्युत्पादनार्थकाः प्रत्ययास्तद्धिता इत्युच्य- न्ते । तद्धितभिन्न प्रत्ययाद्या लशकवर्गा इतः स्युः । यथा- 'ल्युट्' 'शस्' 'क्किप्' ‘खश्’ ‘घञ्' इत्यादौ ।
१७ ।
तस्य लोपः । (१-३-९)
इतो लोप: स्यात् । इत्संज्ञानां वर्णानामक्षराणां वा नाशः कार्य: ;