२३ । परः संनिकर्षः संहिता । (१-४-१०९)
मध्ये विच्छेदं विना वर्णानां धारारूपेणोच्चारणं संहिता । यथा श्लोकवचनादौ । एकैकस्य पदस्य पृथक् पृथक् कथने संहिता नास्ति ||
२४ । विरामोऽवसानम् । (१-४-११०)
स्पष्टार्थमिदं व्याख्यां नापेक्षते । गद्येषु वाक्यविरतिः, पद्येष्वर्ध- विरतिश्चावसानत्वेन गण्यते ||
इति संज्ञाप्रकरणम् ।
अथ परिभाषाप्रकरणम् ।
लाघवाय संदेहवारणाय च शास्त्रेषु स्वातन्त्र्येण निबद्धा व्यवस्था: परिभाषाशब्देनोच्यन्ते । परिभाषाज्ञानं विना विधिसूत्रार्थबोधो न स्वादिति ता व्याख्यायन्ते-
सूत्रैस्तावत् आगमः, आदेशः, प्रत्यय इति प्रायस्त्रिविधानि कार्याणि
विधीयन्ते । तत्त्र प्रत्ययः प्रकृतेः पर एव कर्तव्य इति नियमः। आगमा: कदाचिदादौ, अन्यदान्ते, जातुचिन्मध्ये । आदेशः कदाचिदादेः, अन्यदा- न्त्यस्य, जातुचित् सर्वस्य च । तत्र नियम: परिभाषाभिः क्रियते । प्रथममागमानां देशनियमः-
२५ । आद्यन्तौ टकितौ । (१-१-४६)
- टकौ इतौ ययोस्तौ टकितौ, तो आद्यन्तौ स्तः । टकाररूपेण इता चिह्नित आगम आदौ कार्य: । ककाररूपेण इता चिह्नितोऽन्ते कार्य इत्यर्थः । टकारमनुबन्धं दृष्ट्वा आदौ ; ककारमनुबन्धं दृष्ट्वा अन्ते चागमं कुर्यादिति व्यवस्थास्वरूपम् ||