१. महेश्वरादधिगतानीत्यैतिह्यात् माहेश्वरसूत्राणीति, २. अक्षरपाठरूपत्वात् अक्षरसमाम्नाय इति, ३. प्रत्याहाराख्यसंकेतोपयोगित्वात् प्रत्याहारसूत्राणीति, ४. चतुर्दशसंख्याकत्वात् चतुर्दशसूत्रीति च व्यवह्रियते । तानि चेमानि- १. अ इ उ ( ण् ) २. ऋ ऌ ( क् ) ३. ए ओ ( ङ् ) ४. ऐ औ (च् ) ५. [ ह ] य व र ( ट् ) ६. ल ( ण् ) ७. ञ म ङ ण न ( म् ) ८. झ भ ( ञ् ) ९. घ ढ ध ( ष् ) १०. ज ब ग ड द ( श् ) ११. ख फ छ ठ थ च ट त ( व् ) १२. क प ( य् ) १३. श ष स ( र् ) १४. ह ( ल् )
अत्र चायं रचनाक्रम:- प्राधान्यात् प्रथमं स्वराः । तत्र अ, इ, उ इति मूलस्वरैः प्रथमं सूत्रम् । रेफलकाररूपव्यञ्जनांशोपस्कृता- भ्याम् ऋ ऌ-भ्यां द्वितीयम् । अ + इ = ए; अ + उ = ओ इति मूलस्वरद्वयसंकीर्णाभ्याम् ए-ओ-भ्यां तृतीयम् । अ + अ = आ ; आ + ए = ऐ; आ + ओ = औ इति संकीर्णाकारविशिष्टसंसृष्टि- रूपाभ्याम् ऐ-औ-भ्यां चतुर्थम् । ए, ओ, ऐ, औ इत्येते स्वराः संकर- रूपत्वात् संध्यक्षराणीत्युच्यन्ते । स्वरानन्तरं स्वराणां पूर्णव्यञ्जनानां च मध्यपतितत्वात् मध्यमव्यपदेशभाग्भिः यवरलैः पञ्चमषष्ठे सूत्रे । इ, उ, ऋ, ऌ इति स्वराणां यवरल इति मध्यमानां च सगर्भ्याणां भ्रातॄणामिव कोऽपि सजातीयो धर्मः प्रकटमुपलभ्यते; तत्र इ, उ, ऋ, ऌ इति स्वराणां क्रममनुसर्तुं यवरल इति (यरलव इति लौकिकक्रमात् भिन्नः) क्रम उपात्तः । मध्यमानन्तरं वर्ग्याः पठ्यन्ते । ते च सांप्रदायिकीं रीतिमुल्लङ्घ्य खराः पृथक्, अतिखराः पृथक् इत्यादि भङ्ग्या संघीकृत्य