(अनुनासिकः, घोषः, मृदुः, अतिखरः, खर इति) व्युत्क्रमेण परिगणिताः । वर्ग्येभ्यः परम् ऊष्माणः पठिताः । अत्र हकार एको व्यञ्जनाना- मादावन्ते चेति द्विरुपात्त: । सूत्रसीवने च मध्येमध्ये विच्छेदद्योतनार्थ- मिव ण् , क् , ङ् इत्यादयः केवलव्यञ्जनरूपा ग्रन्थयो निवेशिताः । अन्ते श्रूयमाणानामेषां केवलव्यञ्जनानाम् 'इत्' इति संज्ञा कृता । अन्यत्रापि (आगमादेशप्रत्ययादिषु) इत्संज्ञितानि व्यञ्जनान्यायोजयत्या- चार्य: । इदं नानाप्रकाराणि प्रयोजनान्युद्दिश्य क्रियते । अक्षरसमाम्नाये तावत् इतां प्रत्याहारः प्रयोजनम् । प्रत्याहारो नाम मध्यपतितानां ग्रहणाय आद्यन्तयोर्मेलनम् । तथा हि – उद्दिष्टमेकमक्षरमादाय तेन सह सूत्रान्तपठितानामितां योजनेन संपादितः शब्दो मध्यगतानां वर्णानां संज्ञा भवति, यथा— 'अण्' इति अ-इ-उ-वर्णानां संज्ञा ; ‘अक्' इति ऌपर्यन्तानाम्, 'अच्' इति औपर्यन्तानाम् । एवम् 'इक्' इति इ उ ऋ ऌ इत्येतेषाम् ; 'यण्' इति मध्यमानाम् ; ‘जश्' इति मृदूनाम् ; ‘झष्' इति घोषाणाम् ; 'शर्' इत्यूष्मणां च संज्ञा भवति । अत एव ‘अच्' इति स्वराणां प्रत्याहारः, 'हल्' इति व्यञ्जनानाम्, ‘अल्' इति वर्णमात्रस्य । हकारस्य द्विरुपादानं तस्य 'अट्'-प्रत्याहारेण, शल्'-प्रत्याहारेण च ग्रहणार्थम् । अनियतसंख्याकैर्वर्णैः सूत्रकरणमपि प्रत्याहारसौकर्यार्थमेव । अत्र चार्थे सूत्रम् -
९ । आदिरन्त्येन सहेता । (१-१-७१)
आदित्वेनोपात्तो वर्ण: अन्त्येन इता सह उच्चार्यमाणो मध्यगानां स्वस्य च संज्ञा भवति । प्रत्याहारैर्वर्णग्रहणे मध्यपतितान्यपि इत्संज्ञकानि व्यञ्जनानि न गृह्यन्ते । पुष्पैर्मालाग्रथने गुणेन यावदुपक्रियते तावदेव वर्णै: प्रत्याहारकरणेऽपीति तेष्वश्रद्धैव । अभ्यासार्थं प्रचुरप्रयोगाः केऽपि प्रत्याहाराः स्वग्राह्यैर्वर्णैः सहाधः प्रदर्शिताः -