उक्तौ स्थानाभ्यन्तरप्रयत्नौ ययोः साधारणौ, तौ वर्णौ मिथः
सवर्णावुच्येते । तथा च सूत्रम् –
७ । तुल्यास्यप्रयत्नं सवर्णम् । (१-१-९)
आस्यशब्देन मुखगतस्थानान्युच्यन्ते । स्थानप्रयत्नसाम्येऽपि–
८ । नाज्झलौ । (१-१-१०)
स्वरव्यञ्जनयोर्न मिथः सावर्ण्यम् । अयमत्र फलितोऽर्थः - स्थानप्रयत्नभिन्नेनोपाधिना यो वर्णोऽनेकधा भिद्यते, तस्य भेदप्रभेदा मिथः सवर्णा इति । तादृशाश्च भेदाः स्वराणां मध्यमानां चैव; अतः एकस्यैव स्वरस्य ह्रस्वदीर्घादयो मिथः सवर्णाः ; एवमनुनासिका अननुनासिकाश्च यवला मिथः सवर्णाः । वर्णान्तरेषु सावर्ण्यस्य न प्रसक्तिः । सवर्णेषु भेदेषु एकस्य[१] विहितं कार्यम् अन्यस्यापि[२] कर्तव्यम् । यथा- अकारस्य यद्विधीयते तद् आकारस्यापि कर्तव्यम् । उकारस्य विहितम् ऊकारस्यापीत्यादि । यत्र पुनरेकैस्यैव[३] भेदस्य विधिर्विवक्ष्यते, तत्र स्वरेषु तकारं योजयत्याचार्यः । यथा—अत्, इत्, एत् इत्यादि । एवं[४] च अ = सर्वविधोऽप्यकारः ; अत् = ह्रस्वः अकारः । इ = सर्वविधोऽपीकार: ; इत् = ह्रस्व इकार इत्यादि ॥
लौकिकीमत्र प्रदर्शितामक्षरमालां पाणिनिः क्रमभेदं कृत्वा सूत्रात्मना निबध्नाति । यानि (सूत्राणि)
- ↑ १. व्यापकजात्याक्रान्तस्य ।
- ↑ २. व्याप्यजात्याकान्तस्यापि ।
- ↑ ३. उपात्तधर्मसमानाधिकरणजात्याक्रान्तस्यैव ।
- ↑ ४. यथा स्थूला वा, कृशा वा, कृष्णा वा, श्वेता वा गोर्गौरेव ; तथा ह्रस्वो वा, दीर्घो वा, उदात्तो वा, अनुदात्तो वा अकारोऽकार एवेति स्वरा जात्या ग्राह्याः । कृशा गौरित्यादिवद्विशेषणस्य विवक्षायां तु तत्स्थाने 'अत्' 'आत्' 'इत्' 'ईत्' इति ह्रस्वदीर्घौ तकारं परं कृत्वा उच्यते इति व्यवस्था तन्त्रेऽस्मिन्कृतेति तत्त्वम् ।