सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
[संज्ञा
 


उक्तौ स्थानाभ्यन्तरप्रयत्नौ ययोः साधारणौ, तौ वर्णौ मिथः सवर्णावुच्येते । तथा च सूत्रम् –

७ । तुल्यास्यप्रयत्नं सवर्णम् । (१-१-९) आस्यशब्देन मुखगतस्थानान्युच्यन्ते । स्थानप्रयत्नसाम्येऽपि – ८ । नाज्झलौ । (१-१-१०) - स्वरव्यञ्जनयोर्न मिथः सावर्ण्यम् । अयमत फलितोऽर्थः - स्थानप्रयत्नभिन्नेनोपाधिना यो वर्णोऽनेकधा भिद्यते, तस्य भेदप्रभेदा मिथः सवर्णा इति । तादृशाश्च भेदाः स्वराणां मध्यमानां चैव; अतः एकस्यैव स्वरस्य ह्रस्वदीर्घादयो मिथः सवर्णा: ; एवमनुनासिका अननु- नासिकाश्च यवला मिथः सवर्णाः । वर्णान्तरेषु सावर्ण्यस्य न प्रसक्तिः । सवर्णेषु भेदेषु एकस विहितं कार्यम् अन्यस्यापि कर्तव्यम् । यथा- अकारस्य यद्विधीयते तद् आकारखापि कर्तव्यम् । उकारस्य विहितम् ऊकारस्यापीत्यादि । यत्र पुनरेकैस्यैव भेदस्य विधिर्विवक्ष्यते, तत्र स्वरेषु तकारं योजयत्याचार्यः । यथा—अत्, इन्, एत् इत्यादि । एवं च अ = सर्वविधोऽप्यकार:

अत् = ह्रस्वः अकारः । इ =

सर्वविधो-

ऽपीकार: ; इत् = ह्रस्व इकार इत्यादि ।। = लौकिकीमत प्रदर्शितामक्षरमालां पाणिनिः क्रमभेदं कृत्वा सूत्रात्मना निबध्नाति । यानि (सूत्राणि) - १. व्यापकजात्याक्रान्तस्य । २. व्याप्यजात्याकान्तस्यापि । ३. उपात्तधर्मसमानाधिकरणजात्याक्रान्तस्यैव । ४. यथा स्थूला वा, कृशा वा, कृष्णा वा, श्वेता वा गोगरेव ; तथा ह्रस्वो वा, दीघों वा, उदात्तो वा, अनुदात्तो वा अकारोऽकार एवेति स्वरा जात्या ग्राह्याः । कृशा गौरित्यादिवद्वशेषणस्य विवक्षायां तु तत्स्थान 'अत्' 'आत्' 'इत्' 'ईत्' इति ह्रस्वदीर्घौ तकारं परं कृत्वा उच्यत इति व्यवस्था तन्त्रेऽस्मिन्कृतेति तत्त्वम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९&oldid=406965" इत्यस्माद् प्रतिप्राप्तम्