स्वरांशपृथक्करणं सूचयति । यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्तथापि
वैयाकरणा वर्णैर्व्यवहरन्ति । अतश्च 'क' 'कि' 'कु' इत्याद्या लिपय
एकैकचिह्नात्मिका अपि स्वरव्यञ्जनरूपवर्णद्वयघटिता इति व्याकरणा-
ध्येतृभिः सविशेषमनुस्मरणीयम् ||
अथाक्षरमालायां परिगणितानां वर्णानां विभागः कथ्यते; तत्र स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव । उच्चारणकालमात्रा- नुसारेण स्वरास्तावत् त्रिविधा:-
१. एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो ह्र स्वः।
२. आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो दीर्घः ।
३. अ३, इ३, उ३ इत्यादिवत् तिसृभिरुच्चार्यमाणः प्लुतः ।।
एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि । प्लुतस्तु काक्कादिवद्वाक्य- मात्रदृष्टः स्वरविकारः । अत एव च तस्य लिपिषु चिह्नानि न कल्पि- तानि । स्वरेषु ऌकारोऽतीव विरल: 'क्लृप्तम्' 'क्लृप्तिः’ इत्येकस्य धातोः रूपेष्वेव दृष्टः । अस्य दीर्घः कुत्रापि नोपयुज्यते । ए, ऐ, ओ, औ एषां चतुर्णां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते ; शेषा अ, इ, उ, ऋ एते चत्वार एव त्रिविधा अप्युपयुज्यन्ते । अत्र सूत्रितं पाणिनिना- -
१ । ऊकालोऽज्झस्वदीर्घप्लुतः । (१-२-२७)
ऊकाल:, अच्, ह्रस्वदीर्घप्लुतः इति च्छेदः । ‘अच्' इति स्वरस्य पाणिनिकृता संज्ञा । उ, ऊ, उ३ इतिवत् यस्य कालः स स्वरः क्रमात् हस्वदीर्घप्लुतसंज्ञ इत्यर्थः । संगीतशास्त्र प्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणाम् उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति । अयमपि भेदः सूत्रकारवचनैरेवोच्यते-
२ । उच्चैरुदात्तः
(अच् )। (१-२-२९)