सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ]
शिक्षाकाण्डः ।

३। नीचैरनुदात्तः । (१-२-३०)

४ । समाहारः स्वरितः । (१-२-३१)

 उच्चः स्वर उदात्तः ; नीचोऽनुदात्तः ; उच्चनीचमिश्रितः स्वरितः । अथानुनासिकोऽननुनासिकश्चेति स्थानभेदप्रयुक्तस्तृतीयोऽप्यस्ति स्वराणां विभागः । तत्राविकृतो यथास्थितः स्वरोऽननुनासिकः ॥

५ । मुखनासिकावचनोऽनुनासिकः । (१-१-८))

 मुखशब्देन मुखस्थितानि कण्ठादिस्थानानि गृह्यन्ते । मुखसहिता नासिका मुखनासिका; तथा उच्चार्यमाणो वर्ण: अनुनासिकसंज्ञः । नायं विभाग: स्वराणामेव; यवलानामपि अनुनासिकाननुनासिकभेदो विद्यते । उदात्तानुदात्तस्वरितभेदः, अनुनासिकाननुनासिकभेदश्च स्वराणां लौकिकभाषायामिदानीं नातीवोपयुज्यते; पाणिनिस्त्वेतैरपि व्यवहरती- त्येव तत्स्वरूपं संक्षेपतोऽत्र वर्णितम् । लौकिकव्यवहारेषु तथा ह्रस्व- दीर्घाभ्यामेवातीवोपयोगः ॥

 अथ व्यञ्जनानि विभज्यन्ते । तेषां स्वरवत् जातिभेदो नास्ति ; सर्वाण्यप्येकविधानि । विभागस्तु तेषां सङ्घशः पृथक्कृत्य संज्ञाकरणमेव । तत्र कादयो मपर्यन्ताः २५ वर्णा: ‘ स्पर्शाः ’ इति ‘ वर्ग्याः ’ इति चोच्यन्ते । यरलवाश्चत्वारो ‘ मध्यमाः ’ ‘ अन्तस्थाः ’ वा । शषसाः ‘ ऊष्म ’ -संज्ञिता: । स्पर्शेषु पञ्चभिः पञ्चभिरेको वर्ग इति पञ्च वर्गाः । ते च कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गः इति आद्यवर्णैर्व्यपदिश्यन्ते । पाणिनिस्तु ‘मात्रालाभः पुत्रलाभो दाक्षीपुत्रस्य पाणिनेः’ इति वचन- मन्वर्थयन् उकारयोगेन वर्गाणां कु, चु, टु, तु, पु इति संज्ञाः करोति । प्रथमाः खराः, द्वितीया अतिखराः, तृतीया मृदवः, चतुर्था घोषाः, पञ्चमा अनुनासिका इति पञ्चापि वर्गा: समानरूपं कल्पिता:॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६&oldid=408111" इत्यस्माद् प्रतिप्राप्तम्