संज्ञाप्रकरणम् ]
शिक्षाकाण्ड: ।
तानि ; पदान्यक्षरैरारभ्यन्ते ; अक्षराणि वर्णैरुपकल्पितानि । तथा च
घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः । निरवयव
एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम् । तत्र स्वय-
मुच्चारणार्हो वर्णः स्वरः; तदनई व्यञ्जनम् । अत्र प्रदर्शितायामक्षर-
मालायां प्रथमद्वितीयपङ्कयोर्विन्यस्ता: स्वरा: ; शेषा व्यञ्जनानि ।
व्यञ्जनानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो
योजितः । तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव
चाक्षरमालेति व्यवहरामो न तु वर्णमालेति । यद्यप्यक्षराणां वर्णैरारब्ध-
त्वात् वर्णानामेव लिपिभिः (नादरूपाक्षरस्मारकैः रेखावितानरूपैश्चिह्रैः)
विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितु-
मशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि ।
युरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेत्रोपयुञ्जते, न त्वक्षराणि । यथा
'श्री' इत्यकां लिपि Sri इति तिसृभिलिखन्त्याङ्गलेयाः ॥
अविभाज्य एको नादो वर्ण: ; केवलो व्यञ्जनसंसृष्टो वा स्वर
एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः । अनेन च केवल: स्वरो वर्ण इत्य-
क्षरमिति च द्वावपि व्यपदेशावर्हतीति स्फुटम् । केवलं तु व्यञ्जनं वर्ण
एव । केवला एव स्वरा लिपिषु स्वस्वचिदैनिर्दिश्यन्ते ; व्यञ्जनसंसृष्टास्तु
चिह्नान्तरैरेव लिख्यन्ते । यथा -
क् + अ = क
क + आ = का
क् + इ = कि
क् + ई = की
क् + उ = कु
क् + ऊ = कू
क् + ऋ = कृ
क् + ए = के
=
क् + ए = कै
क् + ओ = को
-
क् + औ = कौ
क् + ऋ = कृ
इत्यादि । ‘क्’ इतिवद् व्यञ्जनलिपीनामधो दक्षिणायता रेखा ताभ्यः
इत्ययं वर्ण:
१. वर्णेषु 'कारः' इत्यस्य योगो निर्देशसौकर्यार्थः । अकारः अ इत्य
पृष्ठम्:Laghu paniniyam vol1.djvu/२४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति