पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/22

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः

२१


(४)अभ्युन्नताङ्गुष्ठनखप्रभाभि-
र्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजह्रतुस्तच्चरणौ पृथिव्यां
स्थलारविन्दश्रियमव्यवस्थाम् ।। ३३ ।।


स्त्रोऽस्त्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्त्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसम्बन्ध इव स्वत: सिद्धस्यैवाङ्गसौष्ठवस्य यौवनप्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः ।। ३२ ।।
     देवतानां रूपं पादाङ्गुष्ठप्रभृति वर्ण्यते मानुषाणां केशादारभ्येति धार्मिका: | संप्रति सप्तदशभि: श्लोकै: पार्वत्या: पादादिकेशान्तवर्णनमारभते -
     अभ्युन्नतेति ।। अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणान्निर्भरन्यासाद्धेतोः | रागमन्तर्गतं लौहित्यम् । "रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु" इति शाश्वतः । उद्गिरन्तौ वमन्तौ । बहिर्नि:सारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेर्गौणार्थत्वान्न ग्राम्यतादोषः | प्रत्युत गुण एव । यथाह दण्डी- "निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते" इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् । संचारिणीमित्यर्थः । स्थलारविन्दश्रियमाजह्रतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः - "यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निमूढगुल्फौ निहतौ सा स्यान्नृपतिसंमता" इति । अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्दश्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालङ्कारः । सा च सम्बन्धेऽसम्बन्धलक्षणातिशयोक्त्यनुप्राणिताव्यवस्थामित्यनेन स्थलारविन्दस्य स्थैर्यसम्बन्धेऽप्यसम्बन्धाभिधानात्। निदर्शनालक्षणं तु- "असंभवद्धर्मयोगादुपमा-


(४) प्रत्य व्रता।