नोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना" इति ॥ ३३ ॥
सेति ॥ प्रत्युपदेशलुब्धैः । "गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते" इति न्यायादिति भावः । तदेव व्यनक्ति-नूपुरसिञ्जितान्यादित्सुभिरादातुमिच्छुभिः । मञ्जीरसिञ्जितमञ्जुकूजितोपदेशमिच्छद्भिरित्यर्थः । राजहंसैः संनताङ्गी । कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । "अञ्चेः पूजायाम्" इतीडागमः । लीला विलासक्रिययोः" इत्यमरः । गतेषु विषयेषु व्यवीयतेव विनीता किमु । अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा ॥ ३४ ॥
वृत्तेति । वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे । गोपुच्छाकार इत्यर्थः । वृत्ते च ते अनुपूर्वे च वृत्तानुपूर्वे नातिदीर्घे च । महाविभाषया न समासः । नञो विशेषणत्वं चशब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । "जङ्घा तु प्रसृता" इत्यमरः । सृष्टवतो निर्मितवतो विधातुः स्त्रष्टुः शेषाङ्गनिर्माणविधौ । जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनः संपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षणं तूक्तम् । यत्न आसेव बभूवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां च लावण्योपादानकत्वात्