सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/21

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
कुमारसम्भवे


असंभृतं मण्डनमङ्गयष्टे
रनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं
बाल्यात्परं (३) []साथ वयः प्रपेदे ॥ ३१ ॥
उन्मीलितं तूलिकयेव चित्रं
सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्याश्चतुरस्त्रशोभि
वपुर्विभक्तं नवयौवनेन ॥ ३२ ॥

स्वदीप्तय इव प्रपेदिरे । उपमानसामर्थ्यादुपदेशमन्तरेणैवेति गम्यते ॥ ३० ॥
     असंभृतमिति । अथ सा पार्वती । अङ्गयष्टेरसंभृतमयत्नसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यतिरिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशवात्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रमाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरुपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालङ्कारः । तदुक्तम्- "कारणाभावे कार्योत्पतिर्विभावना" इति । प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात् परिणामालङ्कारः । तल्लक्षणं तूक्तम् ॥ ३१ ॥
     उन्मीलितमिति ॥ नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । पीनजघनादिसंस्थानमित्यर्थः । तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया । शलाकयेत्यर्थः। "तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः" इति विश्वः । उन्मीलितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् । रुपमिति यावत् । चित्रमालेख्यमिव । सूर्यांशुभिर्भिन्नं विकसितमरविन्दं पद्ममिव चत-


  1. साधु।