पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
कुमारसम्भवम्

मधुश्च ते मन्मथ साहचर्या-
दसावनुक्तोऽपि सहाय एव ।
[१]समीरणो नोदयिता भवेति
व्यादिश्यते केन हुताशनस्य ॥ २१ ॥
तथेति शेषामिव भर्तुराज्ञा-
मादाय मूर्ध्ना मदनः प्रतस्थे ।
[२]ऐरावतास्फालनकर्कशेन
हस्तेन पस्पर्श तदङ्गमिन्द्रः॥ २२ ॥

 मधुरिति । हे मन्मथ । असौ मधुश्च वसन्तोऽपि ते साहचर्यात्सहचरत्वादेवानुतोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथाहि । समीरणो वायुर्हुताशस्याग्नेर्नोदयिता प्रेरको भवेति केन व्यादिश्यते । अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणे सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ्निर्दिष्ट इति प्रतिवस्तूपमालङ्कारोऽयम् । तदुक्तम्-- “यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि। गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता” इति ॥ २१ ॥

 तथेति । तथास्त्विति भर्तुः स्वामिनः शेषामिव प्रसाददत्तां मालामिव ॥ “प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता” । इति विश्वः । ‘माल्याक्षतादिदाने स्त्री शेषा’ इति वैजयन्तीकेशवौ ॥ आज्ञां मूर्ध्न्यादाय शिरसा कृत्वा मदनः प्रतस्थे । “समवप्रविभ्यः स्थः’ इत्यात्मनेपदम् ॥ इन्द्र ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गं मदनदेहं पस्पर्श। इस्तस्पर्शेन सम्भावयामासेत्यर्थः । ‘शेषामिवाज्ञाम्’ इत्यत्र साधकबाधकप्रमाणाभावादुपमोप्रेक्षयोः सन्देहसङ्कर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाज्ञामिवेत्युपमा। अथ न दत्ता तर्हि शेषात्वेनोत्प्रेक्षिता। शेषादानं तु सन्दिग्धमिति। -


  1. समीरणश्चोदयिता, समीरणः प्रेरयिता
  2. दिग्वारणा