पुरतः संमुखे भविष्णुः भवितुमिच्छुः स कुमारः। कर्ता। हेलय ड़िया सह वर्तमानः सहेलः यः हासः तेन छुरितः मिश्वितः आन ममेव इन्दुः चन्द्रः यस्य तथोक्तः सन्। इति निश्चयार्थमव्ययम् । सुरान् देवान् । कर्मभूताम्। अवोचद् उक्तवान् ॥ १३ ॥
भीत्येति । दिवं खर्गः ओकः वासस्खनं येषां तथोशः ससम्वोधने हे दिवौकसः देव: । भीत्या शङया अलम् । शुभिर्भयं न कर्तव्यमिश्वर्युः । अलंशब्दयोगे वतीया । किन्तु अमौ भवन्तः सद्य: शीघ्रमेव स्वर्गं प्रविशन्तु स्वर्गप्रवेशं कुर्वखित्यर्थः । स्वर्गप्रवेशे विलम्बेगालमिति भावः। व: युआकं दृष्टपूर्वः प्रागवलोकितः शत्रुः कृष्टा महान् बलवान् असुरः दैत्यः तारकः अत्रैव अस्मिन्नेव स्थाने में मम दृशोः नेत्रयोः सम्बन्धी यः पन्था गोचरत्वम् तं एतु आगच्छतु प्राप्नोतु इति यावत् । धभा अत्रैव मया तारको बेप्तव्य इति भावः । उभयत अशिषि लोट्प्रयोगः ॥ १४ ॥
वङ्गकति । या तारक सन्धि दोर्मेखलं स्त्रस्तदष्टः-