पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


एकादशः सर्गः । १०२ प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि । परिस्ठशत करकुड्मलेन सुखान्तरं प्राप किमयपूर्वम् ॥ १८॥ (५)सुविस्मयानन्दविकखरायाः शिशर्ग लद्वाग्रतरङ्गितायाः । विटश्च वात्सल्यरसतराया देव्या (३)शोरीं चरतां जगाम ॥ १८ ॥ प्रमोदेति । सा पार्वती । प्रमोदस्य आनन्दस्य सम्बन्धिभिः बाष्पैः सुरुभिः व्याकुले पूर्णत्वात् दर्शनासमर्थं लोचने नयने यस्व: तथोक्ता सती अतएव अग्रतः पुरतः तिष्ठन्तमपीति शेषः । तं सुतं क्षणं क्षणकालं न तु चिरमिति भावः । ददर्श । अथच कर एव कुड्मलं कलिका तेन करणेन परिस्पृशन्त स्म कुर्वती सती किमपि असामान्यम् अपूर्वम् अनृतं सुखान्तरं सुखविशेषम् अन्यत् सुखमित्यर्थः । प्राप अनुभूतवती। सुत स्पर्शश्वनितसुखं लोकोत्तरमिति भावः ॥ १८ ॥ सुविखमयेति । शिशुः बालकः । कर्ता। सु अन्धन्तं यो विस्मयः साथैभावः आनन्दः हर्घश्च ताभ्यां हेतुभूताभ्यां विकस्वरा विकसिता प्रफुल्लितेति यावत् तस्याः । सथ गलनां स्खलतां यो बाष्याणां नेत्रसलिलानां तरङ्गः प्रवाहः स जातोऽस्य: तथोताया:। तरङ्गशब्दादितञ्प्रत्ययः तथा विद्यहं प्रवृद्धे यत् बसस्यं दयावत तस्य यो रसः स्खदः स उत्तरः मुख्यः यस्याः तयोतायाः देव्याः पार्वत्याः दृशोः नयनयोः सम्बन्धिनीं गोचर (५) सविध्यय। () ड्यः ।