एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
कुमारसम्भवे
कात् त्रयमप्यनमुपलभन्तं किमु । अन्यथा स्वस्वविषयाधि । गमः किं न स्यादिति भावः ॥ ६४ ॥
अथ पराङ्गनावचनान्याह--
स्थान इति । पेलवया कोमलयापि आपणया पार्वत्या एतस्य शिवायैतदर्थम् । ‘ऍन सह नित्यसमासः सर्वलिङ्गता च” इति विशेष्यनिघ्नत्वम् ॥ दुश्चरं तपस्तप्तं स्थाने युक्तम् । कुतः । या नारी अस्येश्वरस्य दास्य' दासीत्वमपि लभेत सा कृतार्था स्यात् । या अङ्क एव शय्या तामङ्कशय्यां लभेत सा किमुत। तार्थेति किमु वक्तव्यमित्यर्थः ॥ ६५ ॥
परस्परेणेति ॥ स्पृहणीयशोभं सवैराशास्यमानसौन्दर्यंमिदं द्वन्द्व मिथुनम् ॥ “इदं रहस्य–” इति निपातः । परपरेण नायोजयिष्यञ्च न योजयेद्यदि प्रजानां पत्य र्विधातुरस्मिन् इये इव रूपविधाने सौन्दर्यनिर्माणे यत्र प्रयास विफलोऽभविष्यद्भवेत् । एतदनुरूपस्त्रीपुंसन्तराभावादिति भावः । “लिनिमित्ते स्टङ क्रियातिपत्तौ” इति ठञ् ॥ ६६ ॥