पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२१४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सप्तमः सर्गः । २१३ विमानशृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥ ४० ॥ उपाददे तस्य सहस्ररश्मि स्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलि र्बभौ (१)पतङ्गङ्ग इवोत्तमाङ्ग ॥ ४१ ॥ मूर्ते च गङ्गायमुने तदानों सचामरे देवमसेविषाताम् । इति भमर्डप्रत्यय: ॥ गणे: प्रमथैः उदीरित: उरुपादितः मङ्गल तूर्यघोषो मङ्गलवाद्यध्वनिः विमानशृङ्गाण्यवगाहमनसन् । सुरेभ्यो विमानस्थेभ्यः सेवावसरं शशंस। सुराः प्रस्थानतूर्यं - गिमाकथमेष नः सेवावसर इत्याजग्म रित्यर्थः ॥ ४० / सुराणां सेवप्रकारमेवाह उपादद इति । तस्य हरस्य सहस्ररश्मिः सूर्यस्त्वष्ट्रा विश्व कर्मेण निर्मितं नवमातपत्रमुपाददे। धृतवानित्यर्थः । उत् प्रेक्षते-तद्दुकूलात् तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलादवि दूरमौलिः । तदुकूलस्यासन्नमौलिरित्यर्थः। स हर उत्तमाङ्गं शिरसि । `उत्तमाङ्ग शिरः शीर्षम्” इत्यमरः । पतन्ती गङ्गा यस्य स पतङ्गङ्ग इव बभौ । तद्दुकूलादित्यत्र दूरान्तिकाठिं: षष्ठान्यतरस्याम्” इति दूरार्थयोगे विकल्पे न पञ्चमी ॥ नाथे नोक्तम् “पन्यरात् इत्यत्राराच्छब्दस्यार्थग्रहणार्थत्वात्पञ्च- मति तदनाकरम् । किञ्चस्य शास्त्रोन्नविकल्पापवादत्वात् दूरं ग्रामस्व” इत्यादिषीप्रयोगो दूरापास्तः स्यादित्युपेक्ष यमेव ॥ ४१ ॥ । मूर्ते इति । गङ्गा च यमुना च गङ्गायमुने मूर्त विग्रह धारिणी सचामरे चामरसहिते सत्यौ। अतएव समुद्रगा नदी (१) बहन् गङ्गमिव प्रवाहम् ।