चराचराणां भूतानां कुक्षिराधारतां गतः ॥६७॥ |
युक्तार्थेऽव्ययमेतत् । “युतो हे साम्प्रतं स्थाने ’ इत्यमरः॥ तथाहि । ते तव कुक्षिश्चराचराणां जङ्गमस्थावररूपिणां भूतानां पृथिव्यादनमाधारतां गतः । तवेव विष्णोः कुक्षिरेवंभूत इति भावः ॥ ६७ ॥
गमितेि । नागः शेषाद्दिक्षु' णालमृदुभिर्विसकोमलैः फणैणी । भुवं कथमधास्यद्धारयेत् । त्वमा रसातलमूलात्पातालपर्यन्तम् । विकल्पादसमासः ॥ नावालम्बिष्यथायोत्पादेर्नावलब्धेथा यदि। त्वदवलम्बनादेव भुजगराजोऽपि भुवं बिभर्तीत्यर्थः । अत्र क्रियातिपथभगवानृङ्प्रयोगश्चिन्त्यः ॥ ६८ ॥
अच्छिन्नेति । अच्छिन्ना अविच्छिन्ना अमलाश्च सन्तनाः प्रबन्धाः प्रवाहाथ यासां ताः तथोक्ताः समुद्रोर्मिभिः अनित्रारिताः । पारगमनान्तःप्रवेशाच्चेति भावः । ते तव कीर्तयः सरितय गङ्गवादयः पुण्यत्वात् पवित्रत्वाल्लोकान् पुमन्ति पादयन्ति । लोकपावनाः खलु पुण्यक्षोका इति भावः । केवलप्रकृतविषयस्तुल्ययोगितालङ्करः ॥ ६९ ॥
यथेति । गङ्गा भागीरथौ। प्रभवत्यस्मादिति प्रभवस्तेन, कारणेन परमे तिष्ठतीति परमेष्ठिनो विष्णोः ॥ परमे कित्प्रत्ययः । `तत्पुरुषे कृति बहुलम्” इत्यलुक् । “- परमेबई-