पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१८६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८५
षष्ठः सर्गः ।

(७) इत्यूचिवांस्तमेवार्थं (८)गुहामुखविसर्पिणा।
द्विरिव प्रतिशब्देन व्याजहार (९)हिमालयः ॥६४॥
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु।
ऋषयो (१)नोदयामासुः प्रत्युवाच स भूधरम्॥६५॥
उपपन्नमिटं सर्वमतः परमपि त्वयि ।
मनसः शिखराणां च सदृशी ते समुन्नतिः ॥६६॥
याने त्वां स्थावरात्मानं विष्णुमाहु(२)स्तथाहि ते

 इतीति । इत्यूचिवानुक्तवान् । वचेः क्वसुप्रत्ययः । हिमालयो हिमवान् गुहानां मुखेषु विवरेषु विसर्पतीति तथोक्तेन प्रतिशब्देन तमेव पूर्वोक्तमेवार्थं हिर्दिवारम्॥ 'द्वित्रिचतुष्टः सुच्” इति सुच्प्रत्ययः । व्याजहार बभाषे ॥ ६४ ॥

 अथेति । अथानन्तरमृषय उदाहरणानि कथाप्रसङ्गस्त एव वस्तून्यर्थास्तेष्वग्रं नयतीत्थग्रणस्तमग्रप्य प्रगल्भम् ॥ “सत्मुद्दिष. –’ इत्यादिना विष् । ‘अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्” इति णत्वम् । अङ्गिरसं नामधिं नोदयामासुः प्रति वक्तुं प्रेरयामासुः । सोऽङ्गिरा भूधरं हिमवन्त ' प्रत्यु वाच ॥६५॥

 उपपन्नमिति । इदम् “एते वयममी दारा:” (६।६३) इत्याद्युत सर्वम् अतः परमतोऽधिकमपि त्वयि उपपत्र युच्यते । तथाहि । ते मनसः शिखराणां च समुन्नतिः सदृशौ । शिखराणीव मनो महोन्नतमित्यर्थः। कि नाम दुष्करसुनतचित्तानामिति भावः । प्रस्तुताप्रस्तुतयोर्मनःशिखरयोरौपम्यस्थ गम्यत्वाद्दीपकालङ्नरः ॥ ६६ ॥

 स्थान इति । त्वां स्थावरात्मानं स्याषररूपिणं विष्णुमाहुः “स्वशयां हिमालय” इति गौतावचनात् । स्थाने युक्तम् ।


(७) इत्युक्तवान् । (८) दरौ। (९) हिमाचलः ।

(१) चोदयामासुःप्रेरयामासुः । (२) मनीषिणः।