पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१८५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८४
कुमारसम्भवे

कर्तव्यं वो न पश्यामि स्याच्चेत्कि (४)नोपपद्यते।
(५)मन्ये मत्पावनायैव प्रज्ञानं भवता(६)मिह हैं।
तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ।
विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥६२॥
एते वयममी दाराः कन्येयं कुलजौवितम् ।
बूत येनात्र वः कार्यमनाया बाह्यवस्तुषु ॥६३॥

 कर्तव्यमिति । कर्तव्यं कार्यं वो यककं न पश्यामि। निस्पृहत्वादिति भावः । अथ स्याच्च डिटत यदि किं जोपपद्यते किं नाम न सम्भवति । सर्वे सुलभमवेत्यर्थः । अथवा । किमत्र प्रयोजनचिन्तयेत्याह-मत्पावनाय मच्छोधनायैव भवतामिह विषये प्रस्थानम् । इमं देशमुद्दिश्यंदं प्रयाणमित्यर्थः । मन्घ तर्कयामि ॥ ६१ ॥

 तथापीति । तथापि भवतां निस्पृहत्वे ऽपि कस्मिंश्चित्। कर्मणीति शेषः ) आशामिदं कुर्वित्यादेशं तावदिदानीं में मर्थं दातुमर्हथ । मनुग्रहबुद्ध ति भावः । हि यस्मात् किङ्करा भृत्याः। प्रभवन्तति प्रभविष्णुषु प्रभुषु विषये ॥ “भुवञ्च” इतौष्णुच्प्रत्ययः । विशेषेण नियोगो विनियोगः श्रेषणमेव प्रसादोऽनुग्रहो येषां ते तथोक्तः। अन्यथा स्वामिभावो निष्यल इति भावः ॥ ६२ ॥

 एत इति । किं बहुना। एते वयममी दारा इयं कुलस्त्र जीवितं प्राणभृता। परमप्रेमास्पदमित्यर्थः । कन्या। अवैध मध्ये येन जनेन वः कार्यं प्रयोजनं बूत । तमिति शेवः। येन सोऽपि दीयत इति भावः । रत्नहिरण्यादिकं तु न मे गस्वमियष्ठ-बाह्यवस्तुषु कनकरजादिष्वनास्थानादः । प्रसज्यतप्रतिषेधेऽपि नञ्समास इयते । अदेयं न किञ्चिदस्तीति आवः ॥ ६३॥


(४) नोपदिश्यते । (५) शडे । (६) इदम् ।