पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१८८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८७
षष्ठः सर्गः ।

तिर्यगूर्वमधस्ताच्च व्यापको महिमा हरेः ।
त्रिविक्रमोद्यतस्यासीत्स (७)तु स्वाभाविकसब ॥ ७१ ॥
यज्ञभागभुज मध्ये पदमातस्थुषा त्वया।
उच्चैर्हिरण्मयं शुक्लं सुमेरोर्वितथीकृतम् ॥७२॥
काठिन्य' स्थावरे काये भवता सर्वसमर्पितम् ।
इदं तु ते भक्तिनम् (८)सतामाराधनं वपुः॥७३॥

र्दिव्यस्निभ्यः स्थः” इति षत्वम् । पादेन चरणेन यथैव श्लाध्यते प्रशस्यते तथैव द्वितीयेन प्रभवेण उच्छिरसा त्वया श्लाध्यते । हरिचरणवत्तौर्थस्यापि तीर्थभूतस्त्वमिति भावः ॥ ७० ॥

 तिर्यगिति । तिर्यगूर्धमधस्ताच्च याापकः । सर्वव्यापत्यर्थः । महिमा महत्वं हरर्विष्णोस्त्रिषु विक्रमयूद्यतस्य सत आसीत्। त्रिविक्रमोद्यतस्यापि कदाचिदेव। न तु सर्वदत्यर्थः। तव तु व्यापको महिमा खाभाविकः । नित्थसिद्ध इत्यर्थः ॥ ७१ ॥

 यत्रेति । यज्ञभागभुजामिन्द्रादीनां मध्ये पदमातस्थुषा निहितवता त्वया उच्च रुश्रतं हिरण्यस्य विकारो हिरण्मयम् ॥ दाडिनायनहास्तिनायन–’ इत्यादिना निपतनात् साधु ॥ सुमेरोः शुद्धं शिखरम् । प्राधान्यं च ध्वन्यते । “शृङ्गं प्रधान्यस्तान्वाय’ इत्यमरः । वितथीश्चतं व्ययीकृतम् । तस्य यज्ञभागाभावादिति भावः। अस्य तु तसद्भावे प्रमाणम्--*हिमवतो हस्तौ” इति श्रुतिः ॥ ७२ ॥

 काठिन्यमिति । भवता सर्वं काठिन्यम् । अगस्त्रत्वमि न्यर्थः । स्थावरे स्थिरे कायं । शिलामय इत्यर्थः । अर्पितं न्यस्तम् । सतामर्हतामाराधनं पूजासाधनं त इदं वपुस्तु । वङ्ममित्यर्थः । भक्तिनम्रम्। काठिन्यलेशोऽप्यत्र नास्यन्यथा नम्रत्वकसम्भवादित्यर्थः । तथा चासाधारण्यं ध्वन्यते ॥ ७३ ॥


(७) च भाषिकस्तथा । (८) अहंदाराधनम्।