तयेति । सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूर्वोक्तप्रकारेण पतितप्त' सन्तप्त' तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न स्नायति प्रत्युत विकसति तथा तदीयं सुखमासीदिति भावः । किंत्वस्य मुखस्य दौर्बयोरपाङ्गयोः केवलं नेत्रान्तयोरिव शनैःशनैर्मन्द मन्दं श्यामिकया कालि पदं स्थानं कृतम्। तयोः सौकुमर्यादित्यर्थः ॥ २१ ॥
अयाचितेति । अयाचितोपस्थितमप्रार्थितोपनतं केवलमग्बूदकं रसात्मकस्यामृतमयस्योदूनां नञ्चषाणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणविधिरध्यवहारकर्म बभूव । तावन्मात्रसाधन कोऽभूदित्यर्थः । साध्यसाधनयोरभेदेन व्यवदेशः साधनान्तरव्यावृत्यर्थः । किलेति प्रसिद्ध। वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्यतिरिक्त साधनसुषयो यस्य स तथोकः पारणाविधिर्न बभूव। दृशोष्ययाचितोपवितेन मेघोदकेनेन्दुलिरणैश्च जीवतौति प्रसिद्धम् । अस्मियापि तावन्मात्रमवलम्बतेत्यर्थः ॥ २२॥