पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
पञ्चमः सर्गः ।


(१)[१] तयातितप्त' सवितुर्गभस्तिभि
मु ख तदयं कमलश्रय दधौ ।
अपाङ्गयोः केवलमस्य दीर्घयोः
शनै:शनै: श्यामिकया कृतं पदम् ॥ २१ ॥
अयाचितोपखितमम्ब केवलं
रसात्मकस्योडुपतेश्च रश्मयः ।
बभूव तस्याः किल पारणाविधि
र्न (२)[२]दृक्षछत्तिव्यतिरिक्त(३)[३]साधनः ॥२२॥

 तयेति । सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूर्वोक्तप्रकारेण पतितप्त' सन्तप्त' तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न स्नायति प्रत्युत विकसति तथा तदीयं सुखमासीदिति भावः । किंत्वस्य मुखस्य दौर्बयोरपाङ्गयोः केवलं नेत्रान्तयोरिव शनैःशनैर्मन्द मन्दं श्यामिकया कालि पदं स्थानं कृतम्। तयोः सौकुमर्यादित्यर्थः ॥ २१ ॥

 अयाचितेति । अयाचितोपस्थितमप्रार्थितोपनतं केवलमग्बूदकं रसात्मकस्यामृतमयस्योदूनां नञ्चषाणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणविधिरध्यवहारकर्म बभूव । तावन्मात्रसाधन कोऽभूदित्यर्थः । साध्यसाधनयोरभेदेन व्यवदेशः साधनान्तरव्यावृत्यर्थः । किलेति प्रसिद्ध। वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्यतिरिक्त साधनसुषयो यस्य स तथोकः पारणाविधिर्न बभूव। दृशोष्ययाचितोपवितेन मेघोदकेनेन्दुलिरणैश्च जीवतौति प्रसिद्धम् । अस्मियापि तावन्मात्रमवलम्बतेत्यर्थः ॥ २२॥


  1. तथाभितप्तम्, तथापि तप्तम् ।
  2. बुधवृत्तिः ।
  3. साधनम् ।