सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
कुमारसम्भवे


स्वजनस्य हि दुःखमग्रतो
विद्युतद्वारमिवोपजायते ॥ २६ ॥
इति चैनमुवाच दुःखिता
सुहृदः पश्य वसन्त किं स्थितम्।
(३)[]तदिदं कणशो (४)[]विकौर्यते
पवनैर्भस् (५)[]कपोतकर्बरम् ॥ २७ ॥
अयि सम्प्रति देहि दर्शनं
अर पर्युत्मुक एष माधवः ।
दयिताखनवस्थितं नृणां
न खलु प्रेम चलं सुहृज्जने ॥ २८॥

संबाध्य स्तनसंबाधम् ॥ "परिक्लिश्यमाने च” इति णमुल् । उरो जघान ताडितवतो च । तथाहि। स्वजनस्याग्रतो दःखं विठतमपसारितं द्वारं कपाटं यस्य तदिवोपजायत आविर्भ. वति। उच्छलं प्रवर्तत इत्य् ,अ क्षाभिप्रायः ॥ २६ ॥

 दूतोति । दुःखम् अस्याः सङ्गतं दुःखिता । सज्जतदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिः एनं वसन्तमित्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त पश्य सुदर्वसखस्य किं स्थितं किमुपस्थितं तदिदं कपोतकर्बुरं पारावतःशबलं कणश्चक्षुर्णीभूतम् । अस्पार्थाच्छस्प्रत्ययः । भस्म पवनै र्विकोर्यंत विक्षिप्यते । पश्य भस्मीभूतस्ते सुहृदित्यर्थः ॥२७॥

 अयति । अयि स्मर । सम्प्रति दर्शनं देहि । एष माधवो वसन्तः पर्युत्सुकस्त्वद्दर्शनोत्कणिठतः। त्वमप्यगद्रुतवतोऽस्य को माधव इत्याशय-तृणां पुरुषाणां दयितासु


  1. यदिदम्।
  2. प्रकौटु।
  3. कपोतकर्बुरम् ।