एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
चतुर्थः सर्ग: ॥
व्केति । हृदयं गच्छतीति हृदयङ्गमो हृद्यः । खच्प्रक[णे “गमः सुप्युपसंख्यानम्” इति खच्प्रत्ययः । “'अरुर्हिषदफन्तस्य मुम्” इति मुमागमः । ते तव सखा कुसुमैरायोजिमारचितं कार्मुकं येन कार्मुकनिर्माता मधुर्वसन्तः क्व नु क । गत इति शेषः । अथवा सोऽप्युग्ररुषा तौव्रकोपेण पिनाकेनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम् । भस्स्रमतामि यर्थः । न गमितः खलु न प्रापितः किम् । ‘जिन्ना सानुनये खलु’ इत्यमरः ॥ २४ ॥
अथेति । अथ तैः परिदेविताक्षरैर्विलापवचनैहृदये दिग्धशरैर्विषलिप्तमुखैः शरैरिवाहतः सन् ॥ “विषाक्ते दिग्धलिकौ' इत्यमरः । मधुर्वसन्त आतुरामापन्नां रतिमभ्युपपत्तुननुग्रहोतुम् । आखासयितुमित्यर्थः । ““अभ्युपपत्तिरनुग्रहः” [इत्यमरः । आत्मानं पुरोऽदर्शयत् । आविरभूदित्यर्थः ॥२५॥
तमिति । सा रतिस्तं मधुमवेक्ष्य दृष्ट्वा भृशं रुरोद। स्तनौ