पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१०९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
कुमारसम्भवे ।

कुमारसम्भवे
क्रियतां कथमन्यमण्डनं
परलोकान्तरितस्य ते मया।
सममेव गतोऽस्यतर्कितां
गतिमङ्गो न च जौवितेन च ॥ २२ ॥
ऋजुतां नयतः स्मरामि ते
शरमुत्सङ्ग(८)निषत्रधन्वनः।
मधुना सह सस्मितां कथां
नयनोपान्त(eविलोकितं च यत् ॥ २३ ॥

वियोजिता सति इत्यर्थः । सुप्सुपेति समासः । क्षणमात्रं जौविता किल इतीदं वचनौयं निन्दा मे मम व्यवस्खितं स्थिरः मभूत् ॥ २१ ॥

 क्रियतामिति । परलोकेऽन्तरितस्य व्यवहितस्य । भूतस्येत्यर्थः । ते तव मया अन्त्यमण्डनं कथं केन प्रकारिण क्रियः । ताम् । क्रियतामित्यत्र कामचारं लोट् बोध्यः । द्तद्धस्य ते यथेच्छमण्हनमपि न सम्भवतीत्यर्थः। कुत:। अङ्गन च जीवितेन च समं सहैव अतर्किताम् अविचारितां गतिं गतोऽसि । इह मृतशरीरमपि नास्ति कस्व मण्डनमिति भावः ॥ २२ ॥

 जुतामृति । शरमुजुतामार्जवं नयत उसी निष. अगतं धनुर्यस्य तस्य । `धनुषश्च” इत्थनड्देशः ॥ ते तव। मधुना वसन्तेन सह ॥ “मधुदैत्य वसन्ते च चैत्रे च” इति विलः ॥ सस्मितां कथामालापं तथा यनयनोपान्तविलोकितमपाङ्गवीक्षणम् । त इत्यनुषङ्गः। तच्च सुमरामि ॥ २३ ॥


(८)-निष, निषक् । (९) -विलोकितानि च ।