पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
चतुर्यः सर्ग: ॥

अमुना ननु पार्श्ववर्तिना
जगदाज्ञां ससुरासुरं तव ।
विसतन्तुगुणस्य कारितं
धनुषः ()पेलवपुष्पपत्रिणः ॥ २९ ॥
गत एव न ते निवर्तते
स सखा दीप इवानिलाहतः ।
अहमस्य दृशव पश्य मा
मविषञ्च(७)व्यसनेन धूमिताम् ॥ ३० ॥
विधिना कृतमर्धवैशसं
ननु मां कामवधे विमुञ्चता।

प्रेम अग्धस्थितमस्थिरम्। चलमित्यर्थः। सुत्रधने प्रेम तु न चलं खलु ॥ २८ ॥

 ईदृशाः सुहृदः कति न सन्तत्यशश्च न कोऽपीत्याह-----

 स्त्रमुनेति । ननु मदन। पावर्तिगा सचरेणासुना वसतेन ससुरासुरं सुरासुरस्रहितं जगबिसतन्तुगुणस्य मृणालचत्रमौवकस्य पेलवानि पुष्पास्त्र व पत्रिणो बाणा यस्य तस्य तव धनुष आज्ञां कारितम् । जगदाशं कारितेत्यर्थः । “ऋक्रोरन्यतरस्याम्” इति जगतः कर्मत्वम् ॥ २९ ॥

 गत इति । स ते सखानिलाहतो वायुताडितो दीप इव गत एव न निवर्तत । अहमस्य दीपायमानस्य दशा वर्तिरिव। तिष्ठामीति शेषः । “दशा बर्ताववस्थायां वस्त्रान्ते स्युर्दशं अपि” इति विश्वः । कुतः। प्रविषड्व्यसनेन सोडुमंशःखप्रकर्बल धूमितां सञ्जातधूमां मां पश्य। धूमव स्या अष्टदौपदशसाम्यं धूमश्च व्यसनमेवेत्यर्थः ॥ ३० ॥


(६) कोमल, पेशल । (७) व्यसमप्रधूमिताम् ।