पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१०५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
कुमारसम्भवे ।

असति त्वयि वारुणौमः
प्रमदानामधुना विडम्बना ॥ १२ ॥
अवगम्य कथीकृतं वपुः
प्रियबन्धोस्तव निष्फलोदयः ।
बहुलेऽपि गते निशाकर
स्तनुतां दुःखमनङ्ग मोच्यति ॥ १३ ॥
हरितारुणचरुबन्धनः
कल मुंस्कोकिलशब्दसूचितः ।
वद संप्रति कस्य बाणतां
नवचूतप्रसवो गमिष्यति ॥ १४ ॥

 नयनानौति । अरुणानि नयनानि घूर्णयन् शमयन् । तथा पदे पदे प्रतिपदम् । वध्यां इहतिः । वचनानि स्खलयन् विपर्यासयन् प्रमदानां वारुषौमदो मद्यमदोऽधुग त्वय्यसति विडम्बना अनुज्ञप्तिमात्रम् । मदगभावे मद निष्फलत्वादिति भावः । तथा च शिशुपालवधे-“तां मदो दयितसङ्गमभूष:" (१०। १३ ) इति ॥ १२ ॥

 अवगम्येति । हे अगदा अशरीर। प्रियबन्धोः प्रियसखस्ख तव वपुः शरीरं कयौक्तमकया कथा सम्पवमानं तं शब्दमात्रावशिष्टम् अवगम्य ज्ञात्वा निष्फलोदयः । उद्दीप्यमावाटु पनवैफल्यमिति भावः । निशाकरश्चन्द्र बहुखे पञ्च गतेऽपि तनुतां कार्यं दुःखं यथा तथा कच्छत् मोचति । वृथा वृद्धिरिति दुःखायियत इत्यर्थः ॥ १३ ॥ .

 हरितेति । हरितं चारुणं च ॥ “वणं वर्णेन' इति तत्पुरुषः । हरितारुचं चारु बन्धनं ठन्तं पुरा यस्य स तथोक्तः । कलेन मधुरेण पुंस्कोकिलशब्देन पुरुषकोकिलगदेन सुचि