सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
चतुर्थ सर्ग: ।


परलोकनवप्रवासिनः
प्रतिपत्स्ये पदवौमहं तव ।
विधिना जन एष वञ्चित
स्त्वदडधौनं खलु देहिनां सुखम् ॥ १० ॥
रजनौतिमिरावगुण्ठिते
पुरमार्गे घनशब्दविक्रवाः।
वसतिं प्रिय कामिनां प्रिया
स्त्वहते प्रापयितुं क ईश्वरः ॥ ११ ॥
नयनान्यरुणानि घूरर्गयन्
वचनानि स्खलयन् पदे पदे।


 न च मे कश्चिद्विचारः किन्तु लोकः शोच्यत इत्याह--

 परलोकेति । परलोकं प्रति नवप्रवासिनोऽचिरप्रोषितस्य। अनेनानुगमनकालानतिपातः सूच्यते । तव पदवीं मार्गं प्रतिपतस्ये । त्वामनुगमिथमीत्यर्थः। अतो मे नास्ति विचार इति भावः । किन्तु विधिना दैवेन एष जनो लोको वञ्चितः प्रतारित:। देहिनां सुखं त्वदधीनं त्वय्यधीनं खलु । अधिशब्दस्य शौराहादिकत्वात् “सप्तमी शौण्डे” इति समासः ॥ "प्रध्य तरपदात्” इति खप्रत्ययः । एवमन्यत्रापि । सुखप्रदाभावं कुतः सुखमिति भावः ॥ १० ॥

 तदेवाह

 रजनीति । हे प्रिय । रजनीतिमिरेण अवगुण्ठित आहोते सुमार्गे घनशब्दविक्लवा गर्जितभीताः प्रियाः कामिनां वसतिं प्रापयितुं त्वदृते त्वां विना ॥ “अन्यारादितरर्ते---" इत्यादिना पञ्चमौ । क ईश्वरः शक्वः । न कश्चिदिथर्थः । न हि कामान्धानां भीतिरस्तौति भावः ॥ ११ ॥