स्मरसि स्मर मेखलागुणौ- |
रणमेव । परस्परापकाररूपकारणाभावेऽपीत्यर्थः॥ क्रियावि
शेषणमेतत् ॥ विलपन्त्यै । त्वद्दर्शनार्थिन्या अपीति भावः
रतये किं कथं दर्शनं न दीयते ॥ क्रियाग्रहणाच्चतुर्थी ॥ ७ ॥
विप्रियमशक्ङते-
स्मरसौति । हे स्मर । गोत्त्रस्खलितेषु नामत्र्यत्यासेषु “गोत्त्रं नाम्नाचले कुले" इति विश्वः । मेखलागुणैर्बन्धनं स्मररि उत स्मरसि वा ॥ "विकल्पे किं किमुत च” इत्यमरः ॥ च्युत केशरैर्भ्त्रष्टकिञ्जल्कैर्दूषिते ईक्षणे येषु तानि अवतंसोत्पलताड़ नानि । सधूलिक्षेपताड़नानौत्यर्थः । स्मरसि वा। अपकारस्म रणादिदमदर्शनमिति भावः ॥ ८ ॥
हृदय इति । हृदये वससीति स्मरवाक्यानुवादः। इत्येवं रूपं मत्प्रियं यदवोच उक्तवानसि ॥ ब्रूञो लुङि "वच उम्’ इत्युमागमः ॥ तत् कैतवमवैमि मिष्येति मन्ये । इदं वचन- सुपचारपदं परस्य रञ्जनाथे यदसत्यभाषणं स उपचारस्तस्य पर्व स्यानम् । कैतवस्यानमिति यावत् । न चेस्वमनङ्गोऽशरौरः । कथं रतिरक्षताविनष्टा। आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः ॥ ९ ॥